संस्कृत-शब्दकोशः

मृद्वीका मृधा

मृध

वाचस्पत्यम्

मृध ||‍ आर्द्रीभावे भ्वा० उभ० सक० सेट् चदित् क्त्वा वेद । मर्द्धति—ते अमर्द्धीत् अमर्द्धिष्ट ममर्द्ध ममृवे ।


वाचस्पत्यम्

मृध ||‍ न० मृध्यतेऽत्र घञर्ये आधारे क । युद्धे अमरः ।


शब्दकल्पद्रुमः

मृध || उ ञ क्लिदि । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् । क्त्वावेट् ।)
उ, मर्द्धित्वा मृद्ध्वा । ञ, मर्धति मर्धते । क्लिदि आर्द्रीभावे । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मृधं || क्ली (मर्धते क्लिद्यतीति । मृध् + कः ।)
युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, हरिवंशे । १८२ । १ । “अपयाते ततो देवे कृष्णे चैव महात्मनि । पुनश्चावर्त्तत मृधं परेषां लोमहर्षणम् ॥”)



Correction: