वाचस्पत्यम्
मृश || स्पर्शने प्रणिधाने च तु० पर० सक० अनिट् । मृशति अम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श ।
शब्दकल्पद्रुमः
मृश || श औ मृशि । इति कविकल्पद्रुमः ॥ (तुदा०-पर० सक०-अनिट् ।)
श, मृशति । औ, अमार्क्षीत् अम्राक्षीत् अमृक्षत् । मृशि इति तालव्यान्तस्यैव क्विपि रूपम् । तेन अनि- र्दि ष्टार्थत्वात् स्पर्शनं प्रणिधानञ्च अस्यार्थः । स्पर्शने । यथा, रघौ । ३ । ६८ । “परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ।” प्रणिधाने । “रामप्रवासे व्यमृशन्न दोषं जनापवादं सनरेन्द्रमृत्युम् ।” केकयीति भट्टिः । ३ । ७ ॥ विमर्शं परामर्शः । मृषि इति मूर्द्धन्यान्तपाठो हेयः । तर्हि क्षमैवार्थः स्यात् । इति दुर्गा- दासः ॥