वाचस्पत्यम्
मेघनाद || पु० मेघस्येव नादोऽस्य । १ वरुणे २ रावणस्य पुत्रे इन्द्रजिति । ६ त० । ३ मेघशब्दे च मेदि० ।
शब्दकल्पद्रुमः
मेघनादः || पुं, (मेघं नादयतीति । नद् + णिच् + अण् ।)
वरुणः । (मेघस्य नाद इव नादो यस्य ।)
रावणपुत्त्रः । इति मेदिनी । दे, ५२ ॥ (यथा, रघौ । १२ । ७६ । “गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ॥” मेघस्य नादः ।)
मेघशब्दः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ७३ । ७ । “ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा । प्रणेदुस्तन्मुखा राजन् ! मेघनाद इवोत्- सुकाः ॥”)
पलाशवृक्षः । इति शब्दचन्द्रिका ॥ तण्डुलीय- शाकः । इति राजनिर्घण्टः ॥ (यथा, भाव- प्रकाशे । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ॥” अस्य गुणादिकं तण्डुलीयशब्दे द्रष्टव्यम् ॥ दानवभेदः । यथा, हरिवंशे । ३३२ । ३० । “सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्य्यवान् ॥” मेघसदृशशब्दविशिष्टे, त्रि । यथा, रामायणे । २ । १६ । २९ । “मेघनादमसम्बाधं मणिहेमविभूषितम् ॥”)