वाचस्पत्यम्
मेघानन्दिन् || पु० मेघेन तद्ध्वनिना आनन्दति आ + नन्द- णिनि । मयूरे अच् मेघानन्दा । वलाकायां राजनि० ।
शब्दकल्पद्रुमः
मेघानन्दी || [न्] पुं, (मेघेन आनन्दतीति । आ + नन्द + णिनिः ।) मयूरः । इति राजनिर्घण्टः ॥