वाचस्पत्यम्
मेढ्र || पुंस्त्री० मिह—ष्ट्रन् । १ मेषे स्त्रियां ङीष् २ पुंसोऽसाधा- रणचिह्ने च पु० अमरः ।
शब्दकल्पद्रुमः
मेढ्रः || पुं, (मेहत्यनेनेति । मिह सेचने + “दाम्नी- शसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।” ३ । २ । १८२ । इति ष्ट्रन् ॥)
शिश्नः । (यथा, मनौ । ८ । २८२ । “अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम् ॥”)
स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति सुख- बोधः ॥ (यथा, “श्रवणनयनवदनघ्राणगुदमेढ्राणि नवस्रोतांसि नराणां बहिर्मुखान्येतान्येव ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥ शिरः पर्य्यन्तं गताया वज्रनाड्या मूलस्थानम् । यथा, पूर्णानन्दकृतषट्चक्रनिरूपणे । “वज्राख्या मेढ्रदेशाच्छिरसि परिगता मध्यमे स्याज्ज्वलन्ती ।” मेढ्रस्याप्रावृतत्वं जन्मान्तरे कृतस्य महापापस्य चिह्नं कुष्ठविशेषः । यथा, भविष्यपुराणीय- मध्यतन्त्रषष्ठाध्याये । “शृणु कुष्ठगणं विप्र ! उत्तरोत्तरतो गुरुम् । विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्तृतीयकः ॥ विकर्च्चुर्ब्रणताम्रौ च कृष्णश्वेते तथाष्टकम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्व्वकर्म्मसु ॥ ब्रणवत्सर्व्वगात्रेषु गण्डे भाले तथा नसि ॥” दुश्चर्म्मा अपावृतमेढ्रः इति स्मृतिसंग्रहितारः ॥ पञ्चभूतानां मध्ये पृथिव्या रजोगुणांशत उत्- पन्नो मेढ्रः तथाच वेदान्तपञ्चदश्याम् । “रजोऽंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्दि- याणि तु । वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥” उपस्थेन्द्रियं नाम उपस्थव्यतिरिक्तं उपस्थाश्रयं मूत्रशुक्रोत्सर्गशक्तिमदिन्द्रियं इत्यात्मानात्म- विवेके शङ्कराचार्य्यः । अस्य लक्षणादकं लिङ्ग- शब्दे उपस्थशब्दे च द्रष्टव्यम् ॥)
मेषः । इत्य- मरः । २ । ९ । ९६ ॥ (यथास्य पर्य्यायः । “मेढ्रो भेढो हुडो मेष उरभ्र उरणोऽपि च । अविर्वृ ष्णिस्तथोर्णायुःकथ्यन्ते तद्गुणा अथ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)