वाचस्पत्यम्
मेथि(धि) || पु० मेथ (घ)—इन् । धान्यमर्द्दनार्थं पशुबन्धान- काष्ठे (मेइकाठ) हेमच० ।
शब्दकल्पद्रुमः
मेथिः || पुं, (मेथन्ते पशवोऽत्रेति । मेथ सङ्गे + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
खले पशुबन्धनार्थन्यस्तदारु । मेइ काठ इति भाषा । यथा, —
“मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।” इति हेमचन्द्रः । ३ । ५५८ ॥ (स्त्री, मेथिका । तत्पर्य्यायो यथा, —
“मेथिका मेथिनी मेथिर्दीपनी बहुपत्रिका । बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च कैरवी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ क्वचित् मेथीति पाठो दृश्यते ॥)