वाचस्पत्यम्
मेनकात्मजा || स्त्री ६ त० । हैमवत्यां दुर्गायाम् मेनासुतादयोऽप्यत्र ।
शब्दकल्पद्रुमः
मेनकात्मजा || स्त्री (मेनकाया आत्मजा ।)
दुर्गा । इति हलायुधः ॥ (शकुन्तला । यथा, महा- भारते । १ । ७२ । ११ । “नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥”)