संस्कृत-शब्दकोशः

मेन्धिका मेप

मेन्धी

वाचस्पत्यम्

मेन्धी ||‍ स्त्री मा लक्ष्मीः इध्यते यया इन्ध—घञ् गौरा० ङीष् । (मेइदी) वृक्षे तत्पत्रमर्द्दने हि लक्ष्मीतुल्यरक्तहस्तता ।


शब्दकल्पद्रुमः

मेन्धी || स्त्री (मां शोभामिन्धयतीति । इन्ध + णिच् + अण् । गौरादित्वात् ङीष् ।)
क्षुप- विशेषः । इति केचित् । मेहदी इति भाषा ॥



Correction: