संस्कृत-शब्दकोशः

मैत्रभ मैत्रावरुणि

मैत्रावरुण

वाचस्पत्यम्

मैत्रावरुण ||‍ पु० मित्रश्च वरुणश्च देवताद्वन्द्वे आनङ् मित्राव- रुणयोरपत्यम् अण् । अगस्त्ये । इञ् । भैत्रावरुणिरप्यत्र कल्पभेदे हि तस्य तयोः पुत्रत्वं पुराणप्रसिद्धम् ।


शब्दकल्पद्रुमः

मैत्रावरुणः || पुं, (मित्रश्च वरुणश्चेति । “देवता- द्वन्द्वे च ।” ६ । ३ । २६ । इत्यनङ् । ततः “देवता- द्बन्द्बे च ।” ७ । ३ । २१ । इति मित्रस्य वृद्धिः । “दीर्घाच्च वरुणस्य ।” ७ । ३ । २३ । इति वरुणस्य न वृद्धिः । तयोरपत्यमिति । मित्रा- वरुण + अण् ।)
अगस्त्यः । इति शब्दरत्ना- वली ॥ (यथा, अथर्व्ववेदे । ५ । १९ । १५ । “न वर्षं मैत्रावरुणं ब्रह्मज्यमभिवर्षति ॥” अस्य विवरणं यथा, ऋग्वेदे । ७ । ३३ । ११ । “उतासि मैत्रावरुणो वसिष्ठोर्व्वश्या ब्रह्मन् मनसोऽधिजातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्ये न विश्वे देवा पुष्करे त्वाददन्त ॥” “उतापि च हे वसिष्ठ ! मैत्रावरुण ! मित्रावरु- णयोः पुत्त्रोऽसि ब्रह्मन् वसिष्ठ ! उर्व्वश्या अप्स- रसो मनसो ममायं पुत्त्रः स्यादिति ईदृशात् संकल्पात् द्रप्सं रेतः मित्रावरुणयोरुर्व्वशीदर्श- नात् स्कन्नमासीत् । तस्मादधिजातोऽसि । तथा च वक्ष्यते । सत्रेहजातावित्यृचि । एवं जातं त्वा त्वां दैव्येन देवसम्बन्धिना ब्रह्मणा वेद- राशिना अहम्भुवा युक्तं पुष्करे विश्वेदेवा अददन्त अधारयन्त । तथाचादितेर्मित्रा- वरुणौ जज्ञाते इति प्रकृत्य पठ्यते । तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद्बासतीवरे ॥ तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः ॥ बहुधापतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिः सम्भूत ऋषिसत्तमः ॥ कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महा- द्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥ मानेन सम्मितो यस्मात्तस्मान्मान्य इहोच्यते । यद्बा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते । कुम्भ इत्यभिधानञ्च परिमाणञ्च लक्ष्यते । ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः । सर्व्वतः पुष्करे तं हि विश्वे देवा अधारयन् ॥” इति तद्भाष्ये सायणः ॥)



Correction: