वाचस्पत्यम्
मोच || न० मुच—अच् । १ कदलीफले २ शोभाञ्जने पु० अमरः । ३ कदल्यां ४ शाल्मलिवृक्षे ५ नीलीवृक्षे, च स्त्री मेदि० टाप् ।
शब्दकल्पद्रुमः
मोचं || क्ली (मुञ्चति त्वगादिकमिति । मुच् + अच् ।)
कदलीफलम् । इत्यमरः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने । ३१ अः । “तालनाडिकेरपनसमोच- पियालविल्वमधुकश्लेष्मातकाम्रफलस्नेहाः पित्त- संसृष्टे वायौ ॥” विवरणमस्य कदलीफलशब्दे ज्ञातव्यम् ॥)
शब्दकल्पद्रुमः
मोचः || पुं, (मुञ्चति त्वचमिति । मुच् + अच् ।)
शोभाञ्जनवृक्षः । इति मेदिनी । चे, ८ ॥ (यथा, महाभारते । ३ । १५८ । ४३ । “पनसाल्लँकुचान् मोचान् खर्ज्जूरानम्बुवेत- सान् ॥”)