संस्कृत-शब्दकोशः

मौकुलि मौक्तिकतण्डुल

मौक्तिक

वाचस्पत्यम्

मौक्तिक ||‍ न० मुक्तैव स्वार्थे ठक् । मुक्तायाम् अमरः ।


शब्दकल्पद्रुमः

मौक्तिकं || क्ली (मुक्तेव । मुक्ता + “विनयादिभ्य- ष्ठक् ।” ५ । ४ । ३४ । इति ठक् ।)
मुक्ता । इत्यमरः । २ । ९ । ९२ ॥ (यथा, चाणक्यशतके । ५५ । “शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवो नहि सर्व्वत्र चन्दनं न वने वने ॥” तथास्य पर्य्यायः । “मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलञ्च तत् । अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)



Correction: