संस्कृत-शब्दकोशः

मौनिन् मौरजिक

मौनेय

वाचस्पत्यम्

मौनेय ||‍ पु० मुनेः कश्यपपत्नीभेदस्यापत्यम् ढक् । गन्धर्वभेदे राजनि० ।


शब्दकल्पद्रुमः

मौनेयः || पुं, (मुनेरपत्यं पुमान् । मुनि + “इत श्चानिञ् ।” ४ । १ । १२२ । इति ढक् ।)
गन्धर्व्व- गणविशेषः । यथा, —
“गन्धर्व्वाप्सरसः पुण्या मौनेयांस्तु निबोधत । चित्रसेनोग्रसेनौ तु ऊर्णायुरनिधस्तथा ॥ धृतराष्ट्रस्तथोमांश्च सूर्य्यवर्च्चास्तथैव च । युगतत्तृणपत्कार्ष्णो निदिश्चित्ररथस्तथा ॥ त्रयोदशः शालिशिराः पर्य्यण्यश्च चतुर्द्दशः । इत्येते देवगन्धर्व्वाश्चतुस्त्रिंशच्छुभाप्सराः ॥” इति वह्निपुराणम् ॥ (अप्सरोभेदे, स्त्री । यथा, हरिवंशे । २१८ । ४७ । “काश्या शारद्बती चैव मौनेयाप्सरसः स्मृताः ॥”)



Correction: