संस्कृत-शब्दकोशः

मौलिक मौष्टा

मौषल

वाचस्पत्यम्

मौषल ||‍ न० मुषलस्येदम् तत्सदृशं वाऽण् । १ मुषलसम्बन्धिनि २ मुषलतुल्यनिश्चेष्टे “गङ्गायां मौषलं स्नानं महापातक- नाशनम्” इति पुराणम् । मुषलमधिकृत्य कृतो ग्रन्थः अण् । महाभारतान्तर्गते “मुषलं कुलनाशनम्” इत्यादिप्रतिपादके षोडशे ३ पर्वणि ।


शब्दकल्पद्रुमः

मौषलं || क्ली (मूषलमिव । मूषलस्येदमिति वा । मूषल + अण् ।)
मूषलवत् । यथा, —
“गङ्गायां मौषलं स्नानं महापातकनाश- नम् ।” इति प्रायश्चित्ततत्त्वधृतभविष्यपुराणवचनम् ॥ महाभारतस्याष्टादशपर्व्वान्तर्गतपर्व्वविशेषः । यथा, —
“मौषलं पर्व्व चोद्दिष्टं ततो घोरं सुदारुणम् । महाप्रस्थानिकं पर्व्व स्वर्गारोहणिकं ततः ॥” इति महाभारते आदिपर्व्व ॥ मुषलसम्बन्धिनि, त्रि ॥



Correction: