संस्कृत-शब्दकोशः

मौहूर्तिक म्रक्षण

म्रक्ष

वाचस्पत्यम्

म्रक्ष ||‍ संघाते अक० संयोजने सक० भ्वा० पर० सेट् । म्रक्षति अम्रक्षीत् ।


वाचस्पत्यम्

म्रक्ष ||‍ संयोजने स्नेहने च चु० उभ० सक० सेट् । म्रक्षयति ते अमम्रक्षत् त ।


शब्दकल्पद्रुमः

म्रक्ष || क म्रक्षणे । स्नेहने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
रेफयुक्तादिः । म्रक्षणं द्रव्यस्य द्रव्यान्तरेण योजनम् । क, म्रक्ष- यति घृतेनान्नं लोकः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

म्रक्षः || पुं, (म्रक्ष + घञ् ।)
स्वदोषगूहनम् । इति त्रिकाण्डशेषः ॥ म्रक्षणञ्च ॥ (वधः । यथा, ऋग्वेदे । ८ । ५० । १० । “उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदिमे शृणवद्ध- वम् ।” “म्रक्षकृत्वा वधकर्त्ता ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

म्रक्ष || संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
रेफयुक्तादिः । म्रक्षति पयसा शक्तून् लोकः । इति दुर्गादासः ॥



Correction: