वाचस्पत्यम्
म्लेच्छजाति || स्त्री म्लेच्छाभिधा जातिः । गोमांसादिभक्षके किरातादिजातिभेदे अमरः ।
शब्दकल्पद्रुमः
म्लेच्छजातिः || स्त्री (म्लेच्छस्य जातिरिति षष्ठी- तत्पुरुषः म्लेच्छरूपा जातिरिति कर्म्मधारयो वा ।)
गोमांसखादकबहुविरुद्धभाषकसर्व्वा- चारविहीनवर्णः । यथा, —
“गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्व्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥” इति प्रायश्चित्ततत्त्वधृतबौधायनवचनम् ॥ अपि च । “भेदाः किरातशवरपुलिन्दा म्लेच्छजातयः ॥” इत्यमरः । २ । ४० । २० ॥ अन्यच्च । “पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा शवनाः शकाः । पारदाः पह्नवाश्चीनाः किराताः दरदाः खशाः ॥ मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥” इति मानवे १० अध्यायः ॥