वाचस्पत्यम्
म्लेड is an alternate of म्लेट. म्लेट(ड) || उन्मादे भ्वा० पर० सक० सेट् । म्लेट(ड) ति अम्लेटी(डी)त् । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
म्लेड || ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
ऋ, अमिम्लेडत् । म्लेडति । उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥