वाचस्पत्यम्
यकृत् || न० यं संयमं करोति कृ—क्विप् तुक् च । १ कुक्षौ दक्षिण- भागस्थे मांसपिण्डे अमरः । २ तद्वर्द्धके रोगभेदे च “अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र० । तद्रोगनिदानादि तत्रोक्तं यथा “प्लीहामयस्य हेत्वादि समस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिण- पार्श्वयोः” । अस्य शमादौ भत्वे च यकन्नादेशः ।
शब्दकल्पद्रुमः
यकृत् || क्ली (यज् + “शकेरृतिन् ।” उणा० ४ । ५८ । इत्यत्र “बाहुलकात् यजेः कश्च ।” इत्युज्ज्वलदत्तोक्त्या ऋतिन् जस्य च कः ।)
कुक्षे- र्दक्षिणभागस्थमांसखण्डम् । तत्पर्य्यायः । काल- खण्डम् २ । इत्यमरः । २ । ६ । ६६ ॥ काल- खञ्जम् ३ कालेयम् ४ कालकम् ५ । इति हेमचन्द्रः ॥ करण्डा ६ महास्नायुः ७ । इति रभसः ॥ * ॥
(यथा, ऋग्वेदे । १० । १६३ । ३ । “यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ।” “यक्नः हृदयसमीपे वर्त्तमानः कालमांसविशेषो यकृत् तस्मात् ।” इति तद्भाष्ये सायणः ॥)
अथ शरीरावयवविशेषस्य यकृतः स्वरूपमाह । “अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥” अथ यकृद्रोगमाह । “प्लीहामयस्य हेत्वादि समस्तं यकृदामये । किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥” अथ यकृद्रोगचिकित्सा । “प्लीहोद्दिष्टाः क्रियाः सर्व्वा यकृत्यपि समा- चरेत् । कार्य्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥ क्षारञ्च विडकृष्णाभ्यां पूतिकस्याम्बु निस्रुतम् । पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥” इति भावप्रकाशः ॥ (तथा च । “वातेनोदीरितं रक्तं कफेन च घनीकृतम् । पित्तेन पाकतां प्राप्तं त्रिदोषसंश्रितं यकृत् ॥ लक्षणं तस्य वक्ष्यामि तेन तच्चापि लक्षयेत् । क्षीयते तेन मनुजो मृत्युराशु प्रवर्त्तते ॥ वमिक्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः । दाहोऽरुचिस्तृषामूर्च्छा कण्ठे दाहः शिरो- व्यथा ॥ हृच्छूलञ्च प्रतिश्यायः ष्ठीवनं कटुकासह । सशल्यं हृदि शूलञ्च निद्रानाशः प्रलापतः ॥ हृदये मन्यते जाड्यं उदरं गर्ज्जते भृशम् । एतैर्लिङ्गैर्विजानीयात् यकृत् कोष्ठे च वक्षसि ॥” अथास्य चिकित्सा । “निम्बनीपधवचेतसं निशा काश्मरी च तुलसी च सिंहिका । क्वाथ एव हृदयामयापह आशु शूलयकृतश्च नाशकृत् ॥ सौराष्ट्रीकासीसमहौषधानि दुरालभाजातिप्रबालकञ्च । दार्व्वी यमानी ककुभः समङ्गा क्वाथः ससर्पिर्यकृदाशु हन्ति ॥” इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥ “प्लीहवद्दक्षिणात् पार्श्वात् कुर्य्याद्यकृदपि च्युतम् ॥” इति वाभटे निदानस्थाने द्वादशेऽध्याये ॥)