वाचस्पत्यम्
यक्षरात्रि || त्रि० यक्षप्रिया रात्रिः शा० त० । कार्त्तिकपूर्णिमा- रात्रौ त्रिका० ।
शब्दकल्पद्रुमः
यक्षरात्रिः || स्त्री (यक्षप्रिया यक्षाणां वा रात्रिः ।) कार्त्तिकी पूर्णिमा । तत्पर्य्यायः । दीपाली २ । इति त्रिकाण्डशेषः ॥