संस्कृत-शब्दकोशः

यक्ष्मघ्नी यच्छत्

यक्ष्मन्

वाचस्पत्यम्

यक्ष्मन् ||‍ पु० यक्ष—मनिन् । रोगभेदे अमरः । तन्निदानादि यथा “वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात्” । येगोऽत्र वातमूत्र पुरीषाणां । “वातमूत्रपुरीषाणि निगृह्णाति यदा नरः” इति चरकवचनात् । क्षयात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवायानशनेर्ष्यादयो धातुक्षयहेतवः क्षय शब्देनोच्यन्ते । साहसात् बलवता समं मल्लयुद्धा दितः । शिषमाशनात् “बहु स्तोकमकाले वा तद्भक्तं विषमाशनम्” तस्मात् । त्रिदोषः सान्निपातिकः । हेतु- चतुष्ठयात् अन्येपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति । यक्ष्मणः पर्य्यायाः राजयक्ष्मक्षयशोषाः । यक्ष्मादीनां शब्दानां निरुक्तिमाह “वैद्यो व्याधिमतां यस्मात् व्याधेयंत्नेन यक्ष्यते । स यक्ष्मा प्रोच्यते लोके शब्द शास्त्रविशारदैः” । यक्ष्यते पूज्यते । “राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः । क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः । संशोषणाद्रसादीनां शोष इत्यमि- धीयते” । संप्राप्तिमाह “कफप्रधानैर्दोषैस्तु रुद्धेषु रस वर्त्मसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः । क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः” । कफ- प्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेसु अनन्तराः सर्वे धातवः क्षीयन्ते ततो मानवः शुष्यति । कारणभूतस्य रसस्य क्षये कार्य्याणां रक्तादीनामनुक्रमेण क्षीयमाणत्वात्” भावप्र० ।


शब्दकल्पद्रुमः

यक्ष्मा || [न्] पुं, (यक्ष + “बाहुलकात् यक्षयते- रपि ।” उणा० ४ । १५० । इत्यत्र उज्ज्वलदत्तोक्त्या मनिन्प्रत्ययेन साधुः ।)
रोगविशेषः । तत्पर्य्यायः । क्षयः २ शोषः ३ । इत्यमरः । २ । ६ । ५१ ॥ राजयक्ष्मा ४ रोगराट् ५ ॥ अथ राजयक्ष्माधि- कारः । “तत्र राजयक्ष्मणो विप्रकृष्टं सन्निकृष्टञ्च निदानमाह । ‘वेगरोधात् क्षयाच्चैव साहसाद्बिषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥’ वेगोऽत्र वातमूत्रपुरीषाणाम् । ‘वातमूत्रपुरीषाणि निगृह्णाति यदा नरः ॥’ इति चरकवचनात् ॥ क्षथात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवाया- नशनेर्ष्यादयो धातुक्षयहेतवः क्षयशब्देनोच्यन्ते । साहसात् बलवता समं मल्लयुद्धादितः । विषमा- शनात् बहु स्तोकमकाले वा भुक्तं तत् विषमा- शनम् । तस्मात् । त्रिदोषः सान्निपातिकः । हेतुचतुष्टयात् अन्येऽपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति । यक्ष्मणः पर्य्यायाः राजयक्ष्म- क्षयशोषाः ॥ * ॥
यक्ष्मादीनां शब्दानां निरुक्ति- माह । ‘वैद्यो व्याधिमतां यस्मात् व्याधेर्यत्नेन यक्ष्यते । स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः ॥’ यक्ष्यते पूज्यते । ‘राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः । तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥ क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः । संशोषणाद्रसादीनां शोष इत्यभिधीयते ॥’ * ॥
संप्राप्तिमाह । ‘कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरा । क्षीयन्ते धातवः सर्व्वे ततः शुष्यति मानवः ॥’ कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेषु अनन्तरा सर्व्वे धातवः क्षीयन्ते ततो मानवः शुष्यति । कारणभूतस्य रसस्य क्षये कार्य्याणां रक्तादी- नामनुक्रमेण क्षीयमाणत्वात् ॥ * ॥
मार्गाव- रोधे रसक्षयहेतुमाह चरकः । ‘रसश्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते । स ऊर्द्ध्वं कासवेगेन बहुरूपः प्रवर्त्तते ॥’ स्वस्थानस्थः हृदयस्थः । कासं विनापि रसक्षयो भवति मार्गावरोधकुपितवातेन रसस्य शोष- णात् । उक्तञ्च । ‘वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन च । अनुलोमक्षयं दृष्ट्वा प्रतिलोमक्षयावहः ॥’ अनुलोमक्षयं दर्शयित्वा प्रतिलोमक्षयमप्याह । अतिव्यवायिनो वा रेतसि क्षीणे प्रतिलोमक्रमे- णानन्तरा सर्व्वे धातवो रसपर्य्यन्ताः क्षीयन्ते । तद्यथा । शुक्रे क्षीणे मज्जा क्षीयते मज्जनि क्षीणेऽस्थि क्षीयते । एवं पूर्ब्बं पूर्ब्बं क्षीयते । ननु कार्य्यस्य शुक्रस्य क्षये कथं कारणभूतानां मज्जादीनां क्षयः । उच्यते । शुक्रक्षयाद्बायुः कुप्यति । यदुक्तम् । ‘वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन चेति ।’ स वायुः सान्निध्यक्रमेण मज्जादीन् सर्व्वान् धातून् संशोषयति । ततस्तदनन्तरं मानवः शुष्यति ॥ * ॥
पूर्ब्बरूपमाह । ‘श्वासाङ्गसादकफसंस्रवतालुशोष- वम्यग्निसादमदपीनसकासनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥ स्वप्नेषु काकशुकशल्लकिनीलकण्ठ- गृध्रास्तथैव कपयः कृकलासकाश्च । तं वाहयन्ति स नदीर्विजलाश्च पश्येत् शुष्कांस्तरून् पवनधूमदवार्द्दितांश्च ॥’ * ॥
यक्ष्मणो लक्षणमाह्न । ‘अंसपार्श्वाभितापश्च सन्तापः करपादयोः । ज्वरः सर्व्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ॥’ अंसयोः पार्श्वयोः अभितापः पीडा अत्र सकलधातुक्षयपूर्ब्बकः सकलशरीरशोषोऽपि बोद्धव्यः । क्षीयन्ते धातवः सर्व्वे ततः शुष्यति मानव इति संप्राप्तेः । एवं षड्रूपे एकादश- रूपे च बोद्धव्यम् । एतानि त्रीणि लक्षणानि प्रायोभावित्वेन चरकेणोक्तानि । सुश्रुतेन यक्ष्मणि षट्लक्षणान्युक्तानि । ‘भक्तद्वेषो ज्वरः कासः श्वासः शोणितदर्शनम् । स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥’ * ॥
उल्वणतया दोषाणां भेदादेकादश लक्षणा- न्याह । ‘स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः । ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥ शिरसः परिपूर्णत्वमभक्तच्छन्द एव च । कासः कण्ठस्य चोद्धंसो विज्ञेयः कफकोपतः ॥’ अनिलादुल्वणात् एवं पित्तात् कफाच्च । यत आह सुश्रुतः । ‘एक एवमतः शोषः सन्निपातात्मको गदः । उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति च ॥’ असाध्ययक्ष्मिणमाह । ‘एकादशभिरेभिर्व्वा षड्भिर्वापि समन्वितम् । त्रिभिर्व्वा पीडितं लिङ्गैर्ज्ज्वरकासासृगामयैः । जह्याच्छोषार्द्दितं जन्तुमिच्छेत् सुविपुलं यशः ॥’ तत्र विशेषमाह । ‘सर्व्वैरर्द्धैस्त्रिभिर्व्वापि लिङ्गैर्मांसबलक्षये । युक्तो वर्ज्यश्चिकित्स्यस्तु सर्व्वरूपोऽप्यतोऽन्यथा ॥’ सर्व्वैर्लिङ्गैरेकादशभिः । अर्द्धैः षड्भिः त्रिभि- र्ज्ज्वरकासरुधिरवमनैः । अतोऽन्यथा मांसे बले सति सर्व्वरूपोऽपि प्रत्याख्याय चिकित्स्यः । ‘महाशनं क्षीयमाणमतीसारनिपीडितम् । शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् ॥’ महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम् । अतीसारनिपीडितमिति द्बितीयम् । यत उक्तम् । ‘मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् । तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ॥’ शूनमुष्कोदरमिति तृतीयम् ॥ * ॥
अरिष्ट- माह । ‘शुक्लाक्षमन्नद्वेष्टारमूर्द्ध्वश्वासनिपीडितम् । कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥’ मेहन्तं शुक्रं क्षरन्तम् । शुक्लाक्षत्वादीनि एकैकशोऽरिष्टलक्षणानि ॥ * ॥
अवधिमाह । ‘परं दिनसहस्रन्तु यदि जीवति मानवः । सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥’ शोषपीडितो मानवश्चेत्तरुणो भवति । सुभि- षग्भिरुपक्रान्तो भवति । तदा परं दिनसह- स्रम् । द्वितीयदिनसहस्रं यदि जीवति तत्र जीवनविकल्प इत्यर्थः । एतेन शोषपीडितो मानवश्चेत्तरुणो भवति । सद्वैद्यैश्चिकित्स्यो भवति । तदा प्रथमदिनसहस्रं जीवेदेव इत्युक्त्वा चिकित्सामाह । ‘ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् । उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ॥’ आत्मवन्तं यत्नवन्तं धृतिमन्तं वा ॥ * ॥
अथ निदानविशेषैः शोषविशेषानाह । ‘व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान् । व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु ॥’ व्रणोरःक्षतसंज्ञौ शोषिणौ । व्रणशोषी उरः- क्षतशोषी च ॥ * ॥
तत्र व्यवायशोषिणो लक्षणमाह । ‘व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः । पाण्डुदेहो यथापूर्ब्बं क्षीयन्ते चास्य धातवः ॥’ शुक्रस्य क्षयलिङ्गैः सुश्रुतोक्तैः । तानि यथा, शुक्रक्षये मेढ्रवृषणयोर्वेदना अशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्पशुक्रदर्शनमिति । यथापूर्ब्बं क्षीयन्ते चास्य धातवः प्रथमं शुक्रं क्षीयते पश्चात् शुक्रक्षयजनितवायुना मज्जा- दयोऽपि धातवो यथापूर्ब्बं क्षीयन्ते ॥ * ॥
शोकशोषिणो लक्षणमाह । ‘प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः । विना शुक्रक्षयकृतैर्विकारैरुपलक्षितः ॥’ प्रध्यानशीलः यस्याभावेन शोको जनितस्त- द्ध्यानपरः । स्रस्ताङ्गः शिथिलाङ्गः । तादृशः व्यवायशोषिसदृशः । तेन शुक्रादिसर्व्वधातुक्षय- युक्तो भवति । परं शुक्रक्षयकृतैर्विकारैर्मेढ्र- वृषणवेदनादिभिर्वर्जितो भवति । व्याधिस्व- भावात् ॥ * ॥
जराशोषिणो लक्षणमाह । ‘जराशोषी कृषो मन्दवीर्य्यबुद्धिबलेन्द्रियः । कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः ॥ ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः । संप्रस्रुतास्यनासाक्षः शुष्करूक्षमलच्छविः ॥’ मन्दशब्दः स्वल्पार्थः । शुष्करूक्षमलच्छविः शुष्करूक्षे मलच्छवी यस्य सः ॥ * ॥
अध्व- शोषिणो लक्षणमाह । ‘अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः । प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ॥’ संभृष्टस्येव परुषा छविर्यस्य सः । प्रसुप्तगात्रां- वयवः प्रसुप्तः स्पर्शाज्ञः । क्लोमं तिलकं पिपासा- स्थानम् ॥ * ॥
व्यायामशोषिणो लक्षणमाह । ‘व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः । लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ॥’ एभिरेव स्रस्ताङ्गत्वादिभिरध्वशोषिणो लक्षणै- रेव । भूयिष्ठं अत्यर्थम् ॥ * ॥
सनिदानं व्रणशोष- माह । ‘रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् । व्रणितस्य भवेच्छोषो याप्योऽसाध्यश्च स स्मृतः ॥’ उरःक्षतस्य निदानमाह । ‘धनुषायास्यतोऽत्यर्थं भारमुद्वहतो गुरुम् । युध्यमानस्य बलिभिः पततो विषमोच्चतः ॥ वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णतः । शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ॥ अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम् । महानदीं वा तरतो हयैर्व्वा सह धावतः ॥ सहसोत्पततो दूरं तूर्णञ्चातिप्रनृत्यतः । अथान्यैः कर्म्मभिः क्रूरैर्भृशमप्याहतस्य वा ॥ स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः । विक्षते वक्षसि व्याधिर्ब्बलवान् समुदीर्य्यते ॥’ आयास्यतः आयासं कुर्व्वतः । दम्यं वृषादिकम् । अन्यञ्च गजोष्ट्रादिकम् । शिला दीर्घपाषाणः । अश्म प्रस्तरखण्डः । निर्घातोऽस्त्रविशेषः । व्याधिः उरःक्षताखाः ॥ * ॥
उरःक्षतस्य लक्षण- माह । ‘उरो विरुज्यतेऽत्यर्थं भिद्यते च विभज्यते । शूलं भवति तत्पादं शुष्यत्यङ्गं प्रवेपते ॥ प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रकम्पते । क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते ॥ ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ॥ दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहु । कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते ॥ स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् । अव्यक्तं लक्षणं तस्य पूर्ब्बरूपमिति स्मृतम् ॥’ विरुज्यते पीड्यते । भिद्यते विदार्य्यत इव । विभज्यते द्बिधा क्रियत इव । स पुरुषः । क्षतः उरःक्षतवान् । अत्यर्थं क्षीयते क्षीणो भवति । न केवलं सास्रकफक्षयादेव क्षीणो भवति । तथा शुक्रौजसोः क्षयात् । स्त्र्यतिसेवनादिना शुक्रौजसोः क्षयादपि क्षीणो भवति ॥ * ॥
उरः- क्षतस्य विशिष्टं लक्षणमाह । ‘उरोरुक् शोणितच्छर्द्दिः कासो वैशेशिकः क्षते । क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः ॥’ क्षते उरःक्षतवति । उरोरुक् शोणितच्छर्द्दिः कासो वैशेषिकः विशेषतो भवत्येव । तस्मिन्ने- वोरःक्षतवति सास्रकफशुक्रौजसां क्षयात् क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहश्च भवति ॥ * ॥
निदानविशेषेणोरःक्षतस्य लक्षणविशेषमाह । ‘व्रणारोधात् क्षयाच्चैव कोष्ठात् प्रतिमलात्तथा । क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ॥’ क्षयात् धातुक्षयहेतोरतिव्यवायादितः कोष्ठात् प्रतिमलात् कोष्ठात् प्रतिमलवातेन प्रतिलोम- मलात् पूतिकः पूतिगन्धः ॥ * ॥
उरःक्षतस्य साध्ययाप्यासाध्यलक्षणमाह । ‘अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः । परिसंवत्सरो याप्यः सर्व्वलिङ्गन्तु वर्जयेत् ॥’ * ॥
अथ राजयक्ष्मचिकित्सा । ‘बलिनो बहुदोषस्य पञ्च कर्म्माणि कारयेत् । यक्ष्मिणः क्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ॥ मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् । तस्माद्यत्नेन संरक्षेत् यक्ष्मिणो मलरेतसी ॥ शालियष्टिकगोधूमयवमुद्गादयो हिताः । मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशो- षिणः ॥ सपिप्पलीकं सयवं सकुलत्थं सनागरम् । दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् ॥ तेन षड्विनिवर्त्तन्ते विकाराः पीनसादयः ॥ द्रव्यतो द्विगुणं मांसं सर्व्वतोऽष्टगुणं जलम् । पादस्थं संस्कृतञ्चाज्ये षडङ्गी यूष उच्यते ॥’ तद्यथा । यवपल १ कुलत्थपल १ छागमांस- पल ४ जलपल ४८ शेषपल १२ ततः पलमिते घृते संस्करणीयम् । तत्र कर्षमितं सैन्धवं देयं सौरभार्थं हिङ्गु च देयम् । पिप्पली नागरञ्च पृथक् माषमितं कल्कीकृत्य देयम् । दाडि- मामलकाभ्यामम्लत्वं साध्यम् । षडङ्गयूषः ॥ * ॥
‘ककुभत्वक् नागवला वानरीबीजं विचूर्णितं पयसा । पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम् ॥ छागमांसं पयश्छागं छागं सर्पिश्च नागरम् । छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत् ॥ मधुताप्यविडङ्गाश्मं जतुलोहघृताभयाः । घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ॥ ताप्यं सुवर्णमाक्षीकम् । ‘शर्करामधुसंयुक्तं नवनीतं लिहन् क्षयी । क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ॥ सितीपलातुगाक्षीरीपिप्पलीबहुलात्वचः । अन्त्यादूर्द्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ॥ लेहयेद्राजरोगार्त्तं कासश्वासक्षयातुरम् । पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम् । हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्द्ध्वगे ॥’ सितोपला मिश्री । बहुला सूक्ष्मैला । इति सतोपलादिरवलेहः ॥ * ॥
‘जातीफलं विडङ्गानि चित्रकं तगरं तिला । तालीशं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ॥ कर्पूरश्चाभया धात्री मरीचं पिप्पली तुगा । एषामक्षसमा भागाश्चातुर्जातकसंयुताः । पलानि सप्त भङ्गायाः सिता सर्व्वसमा मता ॥ चूर्णमेतत् क्षयं कासं श्वासञ्च ग्रहणीगदम् । अरोचकं प्रतिश्यायं तथा चानलमन्दताम् । एतान् रोगान् निहन्त्येव वृक्षमिन्द्राशनिर्यथा ॥ बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत् । अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ॥’ इति जातीफलाद्यचूर्णम् ॥ * ॥
‘वासकस्य रसप्रस्थं माणिकासितशर्करा । पिप्पली द्बिपलं तावत् सर्पिषश्च शनैः पचेत् ॥ तस्मिन् लेहत्वमायाते शीते क्षौद्रपलाष्टकम् । दत्त्वावतारयेद्बैद्यो लीढो लेहोऽयमुत्तमः ॥ निहन्ति राजयक्ष्माणं कासं श्वासञ्च दारुणम् । पार्श्वशूलञ्च हृच्छलं रक्तपित्तं ज्वरन्तथा ॥’ इति वासावलेहः ॥ * ॥
अथ व्यवायादिहेतुकशोषचिकित्सा । तत्र व्यवायशोषचिकित्सा । ‘व्यवायशोषिणं क्षीररसमांसाज्यभोजनैः । सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ॥’ रसो मांसरसः सुकूलैर्हितैः ॥ * ॥
शोकशोष- चिकित्सा । ‘हर्षणाश्वासनैः क्षीरैः स्निग्धैर्मधुरशीतलैः । दोपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ॥’ * ॥
व्यायामशोषचिकित्सा । ‘व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमै । उपाचरेज्वीवनीयैर्विधिना श्लैष्मिकेण तु ॥’ * ॥
अध्वशोषचिकित्सा । ‘आस्यासुखैर्दिबास्वप्नैः शीतैर्मधुरवृंहणैः । अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ॥’ * ॥
व्रणशोषचिकित्सा । ‘व्रणशोषं जयेत् स्निग्धैर्दीपनैः स्वादुशीतलैः ईषदम्लैरनम्लैर्व्वा यूषमांसरसादिभिः ॥’ * ॥
अथोरःक्षतचिकित्सा । ‘बलाश्वगन्धा श्रीपर्णी बहुपुत्त्री पुनर्नवा । पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ॥’ श्रीपर्णी गम्भारी । बहुपुत्त्री शतावरी । इति बलादिचूर्णम् ॥ * ॥
‘एला पत्रत्वचो द्राक्षा पिप्पल्यर्द्धपलं पृथक् । सितामधुकखर्ज्जूरमृद्वीकाश्च पलोन्मिताः ॥ संचूर्ण्य मधुना युक्ता वटिका संप्रकल्पयेत् । अक्षमात्रा ततश्चैव भक्षयेच्च दिने दिने ॥ क्षतक्षयं ज्वरं कासं श्वासं हिक्कां वमिं भ्रमम् । मूर्च्छां मदं तृषां शोषं पार्श्वशुलमरोचकम् ॥ प्लीहानमामवातञ्च रक्तपित्तं स्वरक्षयम् । एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ॥ द्राक्षायाः प्रस्थमेकन्तु मधूकस्य पलाष्टकम् । पचेत्तोयाष्टके शुद्धे पादशेषेण तेन तु ॥ पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम् । प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरे चतुर्गुणे ॥ सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् । एतद्राक्षाघृतं सिद्धं क्षतक्षीणे सुखावहम् ॥ वातपित्तज्वरश्वासविस्फोटकहलीमकान् । प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ॥’ इति द्राक्षादिघृतम् ॥ * ॥
‘क्षीरे धात्रीविदारीक्षुवरीणाञ्च तथा रसे । पचेत् समे घृतप्रस्थं मधुरैः कर्षसम्मितैः ॥ द्राक्षाद्बिचन्दनोशीरशर्करोत्पलपद्मकैः । मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ॥ प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा । पलार्द्धकांश्च संचूर्ण्य त्वगेलापत्रकेशरान् ॥ विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः । अमृतप्राशमित्येतदश्विभ्यां परिकीर्त्तितम् ॥ क्षीरमांसाशिनां हन्ति रक्तपित्तक्षतक्षयम् । तृष्णारुचिश्वासकासच्छर्द्दिमूर्च्छाप्रमर्दनम् । मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ॥’ इति अमृतप्राशावलेहः ॥ * ॥
‘यद्यच्च तर्पणं शीतमविदाहि हितं लघु । अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः ॥ शोकं स्त्रियः क्रोधमसूयताञ्च त्यजेदुदारान् विषयान् भजेच्च । तथा द्बिजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ॥’ * ॥
अथ राजयक्ष्मणि रसाः । अमृतेश्वरो रसो राजयक्ष्मणि रसेन्द्रचिन्तामणौ । ‘रसभस्मामृतासत्त्वं लौहं मधुघृतान्वितम् । अमृतेश्वरनामायं षड्भुजो राजयक्ष्मजित् ॥’ इति अमृतेश्वरो रसः ॥ रसभस्मः मारितो रसः । अमृतासत्त्वं गुडूची- सत्त्वम् । लौहं मारितम् ॥ * ॥
‘त्रयोऽंशा मारितात् सूतादेकोऽंशो हेम- भस्मतः । एकोऽंशो मृतताम्रस्य शिला गन्धश्च तालकम् । प्रत्येकं भागयुग्मं स्यादेतत् सर्व्वं विचूर्णयेत् ॥ वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् । पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च पूरयेत् ॥ ततो गजपुटे पक्त्वा चूर्णयेत् स्वाङ्गशीतलम् । रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ॥ मरिचैरूनविंशत्या कणाभिर्दशभिस्तथा । मधुना सर्पिषा चापि दद्यादेतं रसं भिषक् ॥ अनेन नश्यति क्षिप्रं वातश्लेष्मभवक्षयः ॥’ इति राजमृगाङ्को रसो राजयक्ष्मणि रसेन्द्र- चिन्तामणौ ॥ * ॥
‘शुद्धसूतं द्विधा गन्धं कुर्य्यात् खल्लेन कज्जलीम् । तयोः समं तीक्ष्णचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥ त्रियाममातपे गोलं ताम्रपात्रे विधारयेत् । आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ॥ धान्यराशौ न्यसेत् पश्चादहोरात्रात्तदुद्धरेत् । संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ॥ त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः । नवभागोन्मितैरेतैः सम एष रसो भवेत् ॥ निष्कद्वयमितं नित्यं मधुना सह लेहयेत् । अयमग्निरसो नाम्ना कासक्षयहरः परः ॥’ इति अग्निरसः शार्ङ्गधरे ॥” इति भावप्रकाशस्य मध्यखण्डे द्वितीयभागे राजयक्ष्माधिकारः ॥ * ॥
(अथास्य पौराणिकं विवरणं यथा, —
“दिवौकसां कथयतामृषिभिर्वै श्रुता कथा । कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः । आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात् ॥ दुहितॄणामसम्भोगाच्छषाणाञ्च प्रजापतेः । क्रोधो निश्वासरूपेण मूर्त्तिमान्निःसृतो मुखात् ॥ प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान् । भार्य्यार्थं प्रतिजग्राह न च सर्व्वास्ववर्त्तत ॥ गुरुणा तमवध्यातं भार्य्यास्वसमवर्त्तिनम् । रजोऽन्धमबलं दीनं यक्ष्मा शशिनमाविशत् ॥ सोऽभिभूतोऽतिगुरुणा गुरुक्रोधेन निष्प्रभः । देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥ अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः । प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्- सितः ॥ स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः । तेजसा वर्द्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥ क्रोधो यक्ष्मा ज्वरो रोग एकोऽर्थो दुःखसंज्ञितः । यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो मतः ॥ स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः । लब्ध्वा चतुर्व्विधं हेतुं समाविशति मानवान् ॥ अयथाबलमारम्भं वेगसन्धारणं क्षयम् । यक्ष्मणः कारणं विद्यात् चतुर्थं विषमाशनम् ॥” अस्य विशेषहेतुर्यथा, —
“युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः । पतनैरभिघातैर्वा साहसैर्वा तथापरैः ॥ अयथाबलमारम्भैर्जन्तोरुरसि विक्षते । वायुः प्रकुपितो दोषावुदीर्य्योभौ विधावति ॥” तथास्य लक्षणादिकं यथा, —
“स शिरःस्थः शिरःशूलं करोति गलमाश्रितः । कण्ठोद्धंसञ्च कासञ्च स्वरभेदमरोचकम् ॥ पार्श्वशूलञ्च पार्श्वस्थो वर्च्चोभेदं गुदे स्थितः । जॄम्भां ज्वरञ्च सन्धिस्थ उरःस्थश्चोरसो रुजम् ॥ क्षणनाच्चोरसो रक्तं कासमानः कफानुगम् । जर्ज्जरेणोरसा कृच्छ्रमुरःशूली निरस्यति ॥ इति साहसिकं यक्ष्मा रूपैरेतैः प्रपद्यते । एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम् ॥ ह्नीमत्त्वाद्वा घृणित्वाद्वा भयाद्बा वेगमागतम् । वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥ तदा वेगप्रतीघातात् कफपित्ते समीरयन् । ऊर्द्ध्वं तिर्य्यगधः कुर्य्याद्विकारान् कुपितोऽनिलः ॥ प्रतिश्यायञ्च कासञ्च स्वरभेदमरोचकम् । पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्द्दनम् ॥ अङ्गिमर्द्दं मुहुश्छर्द्दिर्वर्च्चोभेदं त्रिलक्षणम् । रूपाण्येकादशैतानि यक्षा यैरुच्यते महान् ॥” इति चरके चिकित्सास्थाने अष्टमेऽध्याये ॥ अस्य चिकित्सा यथा, —
“काञ्चनं रससिन्दूरं मौक्तिकं लौहमभ्र- कम् । विद्रुमं मृतवैक्रान्तं तारं ताम्रञ्च वङ्गकम् ॥ कस्तूरिका लवङ्गञ्च जातिकोषैलवालुका । प्रत्येकं बिन्दुमात्रञ्च सर्व्वं मर्द्द्यं प्रयत्नतः । कन्यानीरेण संमर्द्द्यं केशराजरसेन च । अजाक्षीरेण संभाव्यं प्रत्येकं दिवसत्रयम् ॥ चतुर्गुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् । अनुपानं प्रदातव्यं यथादोषानुसारतः ॥ नानारोगप्रशमनं सर्व्वोपद्रवसंयुतम् । क्षयं हन्ति तथा कासं यक्ष्माणं श्वासमेव च ॥ प्रमेहान् विंशतिञ्चैव दोषत्रयसमुत्थितान् । सर्व्वान् रोगान् निहन्त्याशु भास्करस्तिमिरं यथा ॥” इति बृहत्काञ्चनाभ्रवटी ॥ “शिलाजतुमधुव्योषताप्यलौहरजांसि च । क्षीरेणालोडितस्यासु यक्ष्मा क्षयमवाप्नुयात् ॥” इति शिलाजत्वादिलौहम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे राजयक्ष्माधि- कारे ॥ * ॥
)



Correction: