संस्कृत-शब्दकोशः

यज्ञपात्र यज्ञभाजन

यज्ञपुरुष

वाचस्पत्यम्

यज्ञपुरुष ||‍ पु० यज्ञरूपः पुरुषः । वराहरूपे विष्णौ हेमच० । क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

यज्ञपुरुषः || पुं, (यज्ञरूपी पुरुषः ।)
विष्णुः । इति हेमचन्द्रः । २ । २३ ॥ (यथा, श्रीमद्भागवते । २ । ७ । ११ । “सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥”)



Correction: