वाचस्पत्यम्
यज्वन् || पु० यज—भूते क्वनिप् । बिधानेन १ कृतयागे अमरः । २ विष्णौ च यज्ञपदिशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
यज्वा || [न्] पुं, (यज् + “सुयजोर्ङ्वनिप् ।” ३ । २ । १०३ । इति ङ्वनिप् ।)
विघिना इष्टवान् । वेदविधानेन कृतयागः । इत्यमरः । २ । ७ । ८ ॥ (यथा, नैषधचरिते । ३ । २४ । “राजा स यज्वा विबुधव्रजत्रा कृत्वाध्वराज्योपमयैव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्ब्बं त्वहो शेषमशेषमन्त्यम् ॥”)