वाचस्पत्यम्
यथातथ || अप्य० तथानतिक्रम्य अनतिवृत्तौ अव्ययी० । याथार्थ्ये यस्थ वस्तुनो यद्रूपं भवितुमुचितं तथारूपभावे हारा० यथायथमव्यत्रार्थे ।
शब्दकल्पद्रुमः
यथातथं || व्य, क्ली, (यथा वर्त्तते तथानतिक्रम्य इति अनतिवृत्तौ अव्ययीभावः । अव्ययीभावश्च । २ । ४ । १८ । इति नपुंसकत्वम् । “ह्रस्वो नपुंसके प्रातिपदिकस्य ।” १ । २ । ४७ । इति ह्रस्वः । “नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।” २ । ४ । ८३ । इति प्रथमाविभक्तेरमादेशः ।)
यथार्थम् । इति हारावली ॥ (यथा, श्रीमद्भाग- वते । ६ । १ । ४१ । “येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥”)