वाचस्पत्यम्
यथाशक्ति || अव्य० शक्तेरानुरूप्यम् अव्ययी० । १ शक्तेरानुरूप्ये २ शक्त्यनुसारे ।
शब्दकल्पद्रुमः
यथाशक्ति || व्य, क्ली, शक्त्यनुसारेण । शक्तिमनति- क्रम्य । इति मुग्धबोधव्याकरणम् ॥ (यथा, श्रीमद्भागवते । ६ । १२ । १६ । “पश्य मां निर्जितं शक्र ! वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥”)