वाचस्पत्यम्
यथोचित || अव्य० उचितस्यानतिक्रमः अव्ययी० । १ औचित्ये अमरः । अर्श आद्यच् । २ उचिते त्रि० ।
शब्दकल्पद्रुमः
यथोचितं || व्य, क्ली, (उचितमनतिक्रम्येति ।)
यथायोग्यम् । यथाप्राप्तम् । यथा । “भ्रेषो भ्रंशो यथोचितात् ।” इत्यमरः । २ । ८ । २३ ॥ (यथा च श्रीमद्भागवते । ४ । २२ ५० । “कर्म्माणि च यथाकालं यथादेशं यथाबलम् । यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥” त्रि, यथोचितमस्यास्तीति । अर्श आद्यच् । यथार्हः । यथा, मार्कण्डेये । १६ । ३८ । “वयमाप्यायिता मर्त्ययज्ञभागैर्यथोचितैः । वृष्ण्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥”)