संस्कृत-शब्दकोशः

यमघण्ठ यमदग्नि

यमज

वाचस्पत्यम्

यमज ||‍ त्रि० द्वि० व० । यमौ एकदा एकत्र गर्भे सहचरौ सन्तौ जागेते जन—ड । एकदा एकगर्भजातयोः मेदि० ।


शब्दकल्पद्रुमः

यमजः || त्रि (यमो यमकः सन् जायते इति । जन् + डः ।)
एककालीनैकगर्भजातसन्तान- द्वयम् । यथा, मेदिनी । मे, २३ । “यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ ॥” (यथा च कथासरित्सागरे । २३ । ९१ । “शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्ति- सोममपरञ्च । वैश्वानरमर्पितवान् पिङ्नलिकापुत्त्रकौ यमत्रौ ॥”)
अस्य ज्येष्ठत्वं यमशब्द द्रष्टव्यम् ॥ (अश्वविशेषे, पुं । यथा, अश्ववैद्यके । ३ । १५२ । “एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः । यमजं वाजिनं बिन्द्यात् वामनं वामना- कृतिम् ॥”)



Correction: