संस्कृत-शब्दकोशः

यमदेवता यमद्वितीया

यमद्रुम

वाचस्पत्यम्

यमद्रुम ||‍ पु० यमस्य द्रुमः इव । यमद्वारस्थद्रुमतुल्ये शाल्मलिवृक्षे तत्तुल्यलौहमयकीलाकीर्णवृक्षेण हि नारकिपीडनात्तस्य यमद्रुमत्वम् ।


शब्दकल्पद्रुमः

यमद्रुमः || पुं, (यम इव भयावहो द्रुमः ।)
शाल्मलि- वृक्षः । इति राजनिर्घण्टः ॥ (विवरणमस्य शाल्मलिशब्दे ज्ञातव्यम् ॥)



Correction: