वाचस्पत्यम्
यवज || पु० यवात् जायते जन—ड । ३ यवक्षारे रत्नमा० २ यवान्याञ्च राजनि० ।
शब्दकल्पद्रुमः
यवजः || पुं, (यवाज्जायते इति । जन् + डः ।)
यवक्षारः । इति रत्नमाला ॥ (यथास्य पर्य्यायः । “यावशूको यवक्षारो यवशूको यवाग्रजः । क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥” इति वैद्यकरत्नमालायाम् ॥)
यवानी । इति राजनिर्घण्टः ॥