संस्कृत-शब्दकोशः

या याच

याग

वाचस्पत्यम्

याग ||‍ पु० यज—घञ् । मन्त्रकरणके वह्न्याद्यधिकरणे देवोद्देशेन हविस्त्यागरूपे यज्ञे अमरः । तद्भेदाः कात्यायनादि- श्रौत्रसूत्रादौ दृश्याः ।


शब्दकल्पद्रुमः

यागः || पुं, (इज्यते इति । यज् + घञ् ।)
यज्ञः । इत्यमरः । २ । ७ । १३ ॥ तत्र श्रौताग्निकृत्य- हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदे वाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ- यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ- पशुबन्धः ६ सौत्रामणिः ७ । स्मार्त्ताग्निकृत्य- पाकयज्ञाः सप्त । यथा । औपासनम् १ वैश्व- देवः २ स्थालीपाकः ३ आग्रयणम् ४ सर्प- वलिः ५ ईशानवलिः ६ अष्टकान्यष्टका ७ । श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३ षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ । उत्तर- क्रतवो बहवः । यथा । महाव्रतम् १ सर्व्वतो- मुखम् २ राजसूयः ३ पौण्डरीकम् ४ अभि- जित् ५ विश्वजित् ६ अश्वमेधः ७ बृहस्पतिसवः ८ आङ्गिरसः ९ चयनान्यष्टादश २७ । इत्यादि श्रौतसूत्रम् ॥ * ॥
सर्व्वदेवानां यागकालो यथा, शुक्र उवाच । “स्वल्पेनैव तु द्रव्येण महापुण्यं यथा भदेत् । तदहं श्रोतुमिच्छामि ग्रहयागं सुरेश्वर ! ॥ ब्रह्मोवाच । शृणु वत्स प्रवक्ष्यामि यथा त्वं परिपृच्छसि । अल्पकेन महापुण्यं ग्रहर्क्षतिथियौगिकम् ॥ भृगुपूर्णाष्टमीयोगं शिवयागेषु चोत्तमम् । मृदुवर्गञ्च भाग्यञ्च उमाया भृगुवासरे ॥ दैवयोगात् यदा षष्ठी पुष्यर्क्षरविवासरम् । स्कन्दयागस्तदा कार्य्यः सर्व्वकामप्रसाधकः ॥ वारेण वा यदा सूर्य्यः सप्तमी विजया मता । तदा तु भवते भानोर्यागः सर्व्वगुणावहः ॥ शशिरिक्तानुसंयोगे अर्कर्क्षे सोत्तरासु च । नवम्यां मङ्गलायोगो भानुमूलदिनं यदा ॥ अष्टम्यां वाथ चन्द्राहे श्रवणेन शुभावहम् । अहिव्रध्ने कुजाहे तु गणेशे तस्य वाहनि ॥ पुनर्व्वसौ गुरोर्व्वारे द्बादश्यां श्रवणेन वा । सोमग्रस्तं यदा योगं विष्णोः सर्व्वार्थसाधकम् ॥ द्बितीयायां यदा सौम्ये कृत्तिकर्क्षं भवेत् क्वचित् । ग्रहयागस्तदा कार्य्यः सर्व्वशान्तिप्रदायकः ॥ स्वातीसौमी चतुर्थी च उमायागे वरा स्मृता ॥ उत्तरासु च सर्व्वासु भानुपौर्णाष्टमीषु च । शान्त्यभिषेकयागेयु सर्व्वकामार्थदाष्टमी ॥ गुरावेकादशी पुष्ये रोहिण्या वा यदा शनिः । सुतसौगाग्यकामाय यागो रुद्रविनायके ॥ पूर्णिमासु च सर्व्वासु अष्टमीद्वादशीषु च । चतुर्द्दश्यां तृतीयासु ग्रह ऋक्षे शुभेषु च । सर्व्वेषां भवते यागो भक्तिपूर्व्वो महामुने ! ॥ मन्त्रसाधनद्रव्यायो रुद्रयागादवाप्यते । श्रीमेधाज्ञानवात्सल्यमुमायागाज्महामुने ॥ योगज्ञानयशःसिद्धिं महादेवादवाप्नुयात् । आरोग्यं सप्रतापत्वं भास्करात् प्राप्यते ध्रुवम् ॥ गतिमिष्टां यथाकामं प्रयच्छति त्रिविक्रमः । विघ्नो न भवते तस्य यस्तु पश्येद्विनायकम् ॥ विगतारिर्भवेत् षष्ठ्यां दृष्ट्वा स्कन्दं मखे क्षणात् । मातृयागान्महासिद्धिः सर्व्वेषामपि जायते ॥ भवते धनवान् पुंसः प्रथमाहे हुताशनात् । स्वर्गापवर्गसंसिद्धिर्दुर्गायागात् प्रजायते ॥ माघाद्यैर्मङ्गलांशोत्था ज्यैष्ठाद्यैर्ब्रह्म जायते । ईशाद्यैः कालिकाद्यास्तु यष्टव्या विधिना मुने ॥” इत्याद्ये देव्यवतारे उदयतिथ्यृक्षयोगमाहात्म्य- कीर्त्तनम् ॥ * ॥
अथ ग्रहयागविधिः । “प्रणम्य नव रव्यादीन् शुभाशुभफलप्रदान् । ग्रहयागविधिं सम्यक् वक्ति श्रीरघुनन्दनः ॥ अथ ग्रहयागप्रयोगः । तत्र रविसोमबुधगुरुशुक्रवारेषु चित्रानुराधा- मृगशिरोरेवतीपुष्याश्विनीहस्तारोहिण्युत्तरा- त्रयेषु चन्द्रतारानुकूले शुभलग्ने यागः कार्य्यः । अत्र बालग्रहभूतग्रहप्रबलतरनराधिपशत्र- दुःसहरोगाभिभवाद्भूतदुःस्वप्नावलोकनग्रहदौ- स्थ्यादिनिमित्तकं शान्तिकं मलमासादावपि कर्त्तव्यम् । अवग्रहं विना केवलवृष्ट्यायुःपुष्टिपुत्त्र- श्रीकामादिपौष्टिकन्तु मलमासादीतरकाल एव कार्य्यम् ॥ * ॥
तत्र यजमानः कृतस्नानादिः गोमयोपलिप्ते देशे सदर्भासनोपविष्ट उदङ्मुखः स्वस्तिवाच्यः सूर्य्यः सोम इति पठित्वा फलपुष्प- तिलदर्भत्रयसहितजलपूर्णताम्रपात्रं गृहीत्वा, ॐ तद्विष्णोरिति विष्णुं संस्मृत्य ॐ तत् सदि- त्युच्चार्य्य ॐ अद्येतादि अमुकगोत्रः श्रीअमुक- देवशर्म्मा अमुककामो ग्रहयज्ञमहं करिष्ये इति सङ्कल्प्य तज्जलमेवैशान्यां निःक्षिपेत् । अन्यार्थत्वे गोत्रनाम्नोः षष्ठ्यन्तता । करिष्ये इत्यत्र करिष्यामीति विशेषः । ततः श्वेतसर्षपा- नादाय । ॐ वेतालाश्च पिशाचाश्च राक्षसाश्च सरी- सृपाः । अपसर्पन्तु ते सर्व्वे ये चान्ये विघ्नकारकाः ॥ ॐ विनायका विघ्नकरा महोग्रा यज्ञद्बिषो ये पिशिताशनाश्च । सिद्धार्थकैर्वज्रसमानकल्पै- र्मया निरस्ता विदिशः प्रयान्तु ॥ इत्येताभ्यां मन्त्राभ्यां श्वेतसर्षपप्रक्षेपैर्व्विघ्नका- रकानपसारयेत् । ततः सगणाधिपषोडश- मातृकापूजा वसोर्धारा आयुष्यजपं तदज्ञाने गायत्त्रीजपं वृद्धिश्राद्धञ्च कृत्वा तदशक्तौ भोज्य- मुत्सृज्य ब्राह्मणान् परितोष्य ततः स्वय- मशक्तौ कर्त्ता प्राडमुखं गुरुम् ॐ साधु भवा- नास्तामिति वदेत् ॐ साध्वहमासे इति प्रति- वचनम् । ततो गन्धपुष्पवस्त्राङ्गुरीयकादिना गुरुमलङ्कृत्य दक्षिणं जानु स्पृष्ट्वा ॐ अद्ये- त्यादि मत्सङ्कल्पितग्रहयागकर्म्मणि ग्रहपूजा- होमकर्म्मकरणाय अमुकगोत्रं अमुकदेव- शर्म्माणं गन्धादिभिरभ्यर्च्य भवन्तमहं वृणे । ॐ वृतोऽस्मीति प्रतिवचनम् । ॐ यथाविहितं पूजादिकर्म्म कुरु । ॐ यथाज्ञानं करवाणीति प्रतिवचनम् ॥ * ॥
ततो मण्डपोत्तरपूर्ब्बभागे वितस्तिद्वयविस्तृतायां वितस्त्युच्छ्रितायां उदक्- प्लवायां वेद्यां गोमयेनोपलिप्तायां रक्तचन्दना- दिना मध्ये वर्त्तुलं सूर्य्यम् । आग्नेय्यां श्वेतमर्द्ध- चन्द्राकारं सोमम् । दक्षिणस्यां त्रिकोणं रक्तं मङ्गलम् । ऐशान्यां पीतं धनुराकारं बुधम् । उत्तरस्यां पीतं पद्माकारं बृहस्पतिम् । प्राच्यां श्वेतं चतुष्कोणं शुक्रम् । प्रतीच्यां श्यामं सर्पा- कारं शनिम् । नैरृत्यां श्यामं मकराकारं राहुम् । वायव्यां धूम्रवर्णान् खड्गाकारान् केतून् विलिख्य स्वगृह्योक्तविधिना अग्निस्थाप- नादिब्रह्मस्थापनपर्य्यन्तं कर्म्म कृत्वा मण्डले ग्रहानावाहयेत् ॥ * ॥
तत्र क्रमः । मध्ये । ॐ क्षत्त्रियं काश्यपं रक्तं कालिङ्गं द्बादशा- ङ्गुलम् । पद्महस्तद्वयं पूर्ब्बाननं सप्ताश्ववाहनम् । शिवाधिदैवतं ध्यायेद्बह्निप्रत्यधिदैवतम् ॥ सप्तम्यां जायमानं विशाखानक्षत्रं रक्तमाल्या- म्बरधरम् । इति ध्यात्वा ॐभूर्भुवः स्वः सूर्य्यग्रह इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ १ ॥ आग्नेये । ॐसामुद्रं वैश्यमात्रेयं हस्तमात्रं सिताम्बरम् । श्वेतं द्बिबाहुं वरदं दक्षिणं सगदेतरम् ॥ दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् । जलप्रत्यधिदैवञ्च सूर्य्यास्यमाह्वयेत्तथा ॥ चतुर्द्दश्यां जातं कृत्तिकानक्षत्रमिति ध्यात्वा ॐभूर्भवः स्वः सोमग्रह इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ २ ॥ दक्षिणस्याम् । ॐ आवन्त्यं क्षत्त्रियं रक्तं मेषस्थं चतुरङ्गुलम् । आरक्तमाल्यवसनं भारद्बाजं चतुर्भुजम् ॥ दक्षिणोर्द्ध्वक्रमात् शक्तिवराभयगदाकरम् । आदित्याभिमुखं देवं तद्वदेव समाह्वयेत् । स्कन्दाधिदैवतं भौमं क्षितिप्रत्यधिदैवतम् ॥ दशम्यां जातं पूर्ब्बाषाढानक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः मङ्गलग्रह इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डलैरावाह्य स्थापयेत् ॥ ३ ॥ ऐशान्याम् । ॐ मागधं द्ब्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् । वामोर्द्ध्वक्रमतश्चर्म्मगदावरदखड्गिनम् ॥ सूर्य्यास्यं सिंहगं सौम्यं पीतवस्त्रं तथाह्वयेत् । नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम् ॥ द्बादश्यां जातं धनिष्ठानक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः बुधग्रह इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ४ ॥ उत्तरस्याम् । द्बिजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् । ध्यात्वा पीताम्बरं जीवं सरोजस्थं चतुर्भुजम् ॥ दक्षोर्द्ध्वादक्षवरदकरकादण्डमाह्वयेत् । ब्रह्माधिदैवं सूर्य्यास्यमिन्द्रप्रत्यधिदैवतम् ॥ एकादश्यां जातं उत्तरफल्गुनीनक्षत्रमिति- ध्यात्वा ॐ भूर्भुवः स्वः बृहस्पते इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्ल- तण्डुलैरावाह्य स्थापयेत् ॥ ५ ॥ ततः प्राच्याम् । ॐ शुक्रं भोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् । पद्मस्थमाह्वयेत् सूर्य्यमुखं श्वेतं चतुर्भुजम् ॥ सदाक्षवरकरकादण्डहस्तं सिताम्बरम् । शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम् ॥ नवम्यां जातं पुष्यनक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः शुक्र इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ६ ॥ पश्चिमायाम् । सौराष्ट्रं काश्यपं शूद्रं सूर्य्यास्यं चतुरङ्गुलम् । कृष्णं कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् ॥ तद्बद्वाणवरशूलधनुर्हस्तं समाह्वयेत् । यमाधिदैवतं प्रजापतिप्रत्यधिदैवतम् ॥ कृष्णचतुर्द्दश्यां जातं रोहिणीनक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः शनैश्चर इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ७ ॥ नैरृत्याम् । राहुं मलयजं शूद्रं पैठीनं द्बादशाङ्गुलम् । कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥ चतुर्ब्बाहुं खड्गवरशूलचर्म्मकरं तथा । कालाधिदैवं सूर्य्यास्यं सर्पप्रत्यधिदैवतम् ॥ पौर्णमास्यां जातं भरणीनक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः भगवन् राहो इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलै- रावाह्य स्थापयेत् ॥ ८ ॥ वायव्याम् । कौशद्बीपं केतुगणं जैमिनीयं षडङ्गुलम् । धूम्रं गृध्रगतं शूद्रमाह्वयेत् विकृताननम् ॥ सूर्य्यास्यं धूम्रवसनं वरदं गदिनं तथा । चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधिदैवतम् ॥ अमावास्यायां जातं अश्लेषानक्षत्रमिति ध्यात्वा ॐ भूर्भुवः स्वः भगवन्तः केतव इहागच्छत इहागच्छत इह तिष्ठत इह तिष्ठत इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ९ ॥ अधिदैवत- प्रत्यधिदैवतपूजनञ्च अयुतहोमादौ । तत- स्तत्तद्वर्णवस्त्रतत्तद्बर्णगन्धतत्तद्बर्णपुष्पं दद्यात् ॥ धूपे विशेषः । रवये गुग्गुलुधूपम् । सोमाय सरलम् । मङ्गलाय देवदारुम् । बुधाय घृत- मिश्रितदेवदारुम् । बृहस्पतये दशाङ्गम् । शुक्राय अगुरु । शणैश्चराय कालागुरु । राहवे गुडत्वचम् । केतुभ्यो मधुमिश्रितगुडत्वचम् । अभावे षोडशाङ्गं वा ॥ * ॥
गन्धे विशेषः । सूर्य्याय रक्तचन्दनम् । सोमाय श्वेतचन्दनम् । मङ्गलाय कुङ्कुमम् । बुधाय सरलम् । गुरवे रक्तचन्दनश्वेतचन्दनकुङ्कुमसरलं मिश्रितसम- भागत्वेन दद्यात् । शनैश्चराय कस्तूरीम् । राहवे पद्मकाष्ठम् । केतुभ्यश्च पद्मकाष्ठम् । अधिदेवताप्रत्यधिदेवताः पूजयेत् ॥ * ॥
अधि- देवता प्रत्यधिदेवता यथा । सूर्य्यस्य शिववह्नी । सोमस्य उमा जलम् । मङ्गलस्य स्कन्दः क्षितिः । बुधस्य नारायणविष्णू । बृहस्पतेः ब्रह्मा इन्द्रश्च । शुक्रस्य शक्रः शची । शनैश्चरस्य यमः प्रजापतिश्च । राहोः कालः सर्पश्च । केतूनां चित्रगुप्तः ब्रह्मा च । एतत्तु अयुतादिहोमे ज्ञेयम् ॥ * ॥
सूर्य्याय गुडौदनबलिः । एवं सोमादीनामपि । सति सामर्थ्ये षोडशोपचारा- दिना । वलौ तु । सूर्य्याय गुडौदनम् । सोमाय घृतपायसम् । मङ्गलाय पक्वयवचूर्णात्मकयाव- कम् । बुधाय क्षीरान्नम् । गुरवे दध्योदनम् । शुक्राय घृतौदनम् । शनैश्चराय कृशरम् । राहवे छागमांसम् । केतुभ्यः अजाक्षीर- साधिताजकर्णरक्तमिश्रित-यव-तिल-तण्डुलरूपं चित्रौदनम् तत्तद्द्रव्यालाभे भक्ष्यान्तरं दद्यात् ॥ * ॥
ततश्चरुं श्रपयेत् । तत्र साम- गानां क्रमः । अग्नेः पश्चिमायां दिशि प्राग- ग्रान् कुशानास्तीर्य्य तदुपरि प्रक्षालितवारुण- मुदूखलं वैणवञ्च सूर्पं वारुणचमसस्थजल- प्रोक्षितं संस्थाप्य व्रीहीन् यवान् वा अशक्तौ शालितण्डुलान् सूर्पे निधाय ॐ सूर्य्याय त्वा जुष्टं निर्व्वपामि इति गृहीत्वा उदूखले स्थापयेत् । एवं सोमाय । एवं मङ्गलादीनामपि निर्व्वपणं कृत्वा उदूखले स्थापयेत् । द्विस्तूष्णीम् । ततो दक्षिणहस्तमुपरि कृत्वा मुषलेनावहत्य सूर्पेण प्रस्फोटयेत् । इत्थमेव वारत्रयम् । तत- श्चरुस्थाल्याममन्त्रकं कृतोत्तराग्रं पवित्रं निःक्षिप्य तत्र प्रक्षालिततण्डुलान् निधाय तदुपरि दुग्धं दत्त्वा यथा पायसचरुर्भवति तथा स्तोकं स्तोकमुदकं दत्त्वा तन्मध्ये खदिर- पलाशोडुम्बराणामन्यतमस्य प्रादेशप्रमाणं उभयथा सार्द्धाङ्गुष्ठप्रमाणं चतुष्कोणपुष्कलं मेक्षणं दक्षिणावर्त्तेन भ्रामयित्वा तथा पचेत् यथा अन्तरोष्मणा सम्यक् पाको भवति मण्ड- गालनं दाहश्च न भवति । सम्यक्पाके भूते चरुमध्ये घृतस्रुवं दत्त्वा प्रागादिदिक्चिह्नितं कृत्वा चरुमवतार्य्य अग्नेरुत्तरतः कुशोपरि स्थापयित्वा पुनर्मध्ये घृतस्रुवं दद्यात् । ततो भूमिजपादिस्रुवसंस्कारपर्य्यन्तं कर्म्म कृत्वा अग्नेः पश्चिमतः स्तरणकुशोपरि पूर्ब्बमाज्यं पश्चाच्चरुं निधाय उदकाञ्जलिसेकं कृत्वा विरूपाक्षजपान्तां कुशण्डिकां समापयेत् ॥ * ॥
यजुर्व्वेदिनान्तु आज्यस्थाल्यामाज्यनिर्वपणा- नन्तरं सूर्पं पुरतो दक्षिणभागे संस्थाप्य तत्रो- दूखलं विन्यस्य व्रीह्याद्यन्यतमं तत्र निघाय ॐ सूर्य्याय त्वा जुष्टं गृह्णामि इत्येकां मुष्टिं गृहीत्वा ॐ सूर्य्याय त्वा जुष्टं निर्व्वपामीति डदूखले स्थापयित्वा ॐ सूर्य्याय त्वा जुष्ठं प्रोक्षामीति प्रोक्षणीजलेन प्रोक्षयेत् । एवं सोमाय त्वा इत्यादि । तत ॐ अग्नये स्विष्टि- कृते त्वा इत्यादिना ग्रहणनिर्व्वपणप्रोक्षणानि कृत्वा द्बिस्तूष्णीं कुर्य्यात् । ततः पूर्ब्बवत् श्रपणम् । पक्वं ज्ञात्वा ज्वलदग्निं गृहीत्वा चरुमध्ये दक्षिणावर्त्तेन भ्रामयित्वा तमग्निं तत्रैवाग्नौ क्षिपेत् । तत आघाराज्यभागान्तं कर्म्म कुर्य्यात् ॥ * ॥
ऋग्वेदिनान्तु प्रोक्षणी- पात्रस्थापनानन्तरं पवित्रान्तर्हिते ॐ सूर्य्याय त्वा जुष्टं निर्व्वपामीति व्रीह्याद्यन्यतममुष्टिं प्रक्षिप्य ॐ सूर्य्याय त्वा जुष्टं प्रोक्षामीति प्रणीताजलेन प्रोक्षयेत् । एवं सोमाय त्वा इत्यादि । ततः स्विष्टिकृदर्थकिञ्चिदधिकं तूष्णीं तथा कृत्वा पवित्रान्तर्हितं कृत्वा पूर्ब्बग्रीवोर्द्ध्व- लोमकृष्णाजिने उदूखलं निधाय तत्र सूर्पस्थ- व्रीह्याद्यन्यतमं प्रक्षिप्य मुषलेनावहत्य सूर्पेण वितुषीकृत्य प्रस्फोट्य त्रिः प्रक्षाल्य पवित्रं चरुस्थाल्यां प्रक्षिप्य तथैव श्रापयित्वा उदीच्यां दक्षिणभागे ॐ सोमाय स्वाहेति होमपर्य्यन्तं कुर्य्यात् । ततः शान्तिकर्म्मणि अग्ने त्वं वरद- नामासीति नाम कृत्वा । ॐ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः । छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्तिधा- रकः ॥ इत्यादिपुराणीयं ध्यात्वा ॐ वरदनामन्नग्ने इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इत्यावाह्य पाद्यादिना पूजयेत् ॥ * ॥
पौष्टिक- कर्म्मणि तु वलदनामाग्निः । ग्रहहोमे अग्नी- नाह गोभिलः । आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते । धूमकेतुस्तथा भौमे जठरोऽग्निर्ब्बुधे स्मृतः ॥ बृहस्पतौ शिखी नाम शुक्रे भवति हाटकः । शनैश्चरे महातेजा राहौ चैव हुताशनः । केतुषु लोहितोऽग्निः स्यादिति वह्निविनिर्णयः ॥ ततः स्वगृह्योक्तविधिनानेन चरुणा सूर्य्यादि- ग्रहेभ्यः प्रत्यकाहुतिं दद्यात् ॥ * ॥
अत्र मन्त्राः । सूर्य्यस्य आकृष्णेनेतिमन्त्रस्य हिरण्यस्तूपाङ्गिरा ऋषिस्तृष्टुप् छन्दः सविता देवता आदित्यस्य पूजाहोमकर्म्मणि विनियोगः । ॐ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यञ्च हिर- ण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् स्वाहा । इदं सूर्ध्याय इति देवतोद्देशः सामगेतरैः कार्य्यः ॥ १ ॥ सोमस्य इमन्देवेति- मन्त्रस्य वरुण ऋषिरग्निर्देवता सोमस्य पूजा- होमकर्म्मणि विनियोगः । ॐ इमन्देवा अस- पत्नं सुवद्धं महते क्षत्त्राय महते ज्येष्ठाय । इमममुष्य पुत्त्रममुष्यै पुत्त्रमस्यै विशे स्वाहा । इदं सोमाय ॥ २ ॥ मङ्गलस्य अग्निर्मूर्द्धेति- मन्त्रस्य अपाङ्गिरा ऋषिर्गायत्त्री च्छन्दोऽग्नि- र्देवता मङ्गलस्य पूजाहोमकर्म्मणि विनि- योगः । ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयमपां रेतांसि जिन्वति स्वाहा । इदं मङ्गलाय ॥ ३ ॥ बुधस्य उद्बुध्यस्वेतिमन्त्रस्य पर- मेष्ठिरृषिस्तृष्टुप् छन्दोऽग्निर्देवता बुधस्य पूजा- होमकर्म्मणि विनियोगः । ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्त्ते संसृजेथामयञ्चास्मिन् सधस्ये अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत स्वाहा । इदं बुधाय ॥ ४ ॥ बृहस्पतेः बृह- स्पते अतीतिमन्त्रस्य गृत्समद ऋषिस्तृष्टुप् छन्दो ब्रह्मा देवता जीवस्य पूजाहोमकर्म्मणि विनि- योगः । ॐ बृहस्पते अतियदर्य्योऽर्हाद्युमद्बिभाति क्रतुमज्जनेषु । यद्दीदयत्सरस ऋतु प्रजात तद- स्मासु द्रविणं धेहि चित्रं स्वाहा । इदं बृह- स्पतये ॥ ५ ॥ शुक्रस्य अन्नात् परिश्रुत इति मन्त्रस्य प्रजापतिरृषिरतिजगतीच्छन्दोऽग्निसरस्वतीन्द्रा देवताः शुक्रस्य पूजाहोमकर्म्मणि विनियोगः । ॐ अन्नात् परिश्रुतो रसं ब्रह्मणा व्यपिवत् क्षत्त्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु स्वाहा । इदं शुक्राय ॥ ६ ॥ शनैश्चरस्य शन्नो देवीतिमन्त्रस्य दध्यङ्गाथर्व्वण ऋषिर्गायत्त्री च्छन्द आपो देवता शनैश्चरस्य पूजाहोम- कर्म्मणि विनियोगः । ॐ शन्नो देवीरभीष्टये आपो भवन्तु पीतये संयोरभिस्रवन्तु नः स्वाहा । इदं शनैश्चराय ॥ ७ ॥ राहोः काण्डात् काण्डा- दिति मन्त्रस्य अग्निरृषिर्गायत्त्री च्छन्दो दूर्व्वे- ष्टका देवता राहोः पूजाहोमकर्म्मणि विनि- योगः । ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः परि एवानो दूर्व्वे प्रतनु सहस्रेण शतेन च स्वाहा । इदं राहवे ॥ ८ ॥ केतूनां केतुं कृण्वन्नितिमन्त्रस्य मधुच्छन्द ऋषिरनिरुद्गायत्त्री- च्छन्दोऽग्निर्देवता केतूनां पूजाहोमकर्म्मणि विनियोगः । ॐ केतुं कृण्वन्न केतवे पेषो मर्य्या अपेषसे । समुषद्भिरजायथा स्वाहा । इदं केतुभ्यः ॥ ९ ॥ ततो मधुघृताक्तां घृताक्तां क्षीराक्तां वा प्रादेशप्रमाणां साग्रामर्कसमिध- मादाय ॐ आकृष्णेन इत्यादिमन्त्रेण सूर्य्याया- ष्टोत्तरशतं अष्टाविंशतिमष्टौ वा अशक्त्या । शक्त्या ग्रहस्यातिपीडाकरत्वाद्वा अष्टोत्तर- सहस्रं जुहुयात् ॥ * ॥
समिधमाह याज्ञ- वल्क्यः । अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः । उडुम्बरः शमी दूर्व्वा कुशाश्च समिघः क्रमात् ॥ होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते । अतिपीडाकरो यस्तु तन्तु यत्नेन पूजयेत् ॥ ततो होमानन्तरं उदीच्यं कर्म्म कुर्य्यात् । ततो गुडौदनादीन् ऋत्विजे भोजयेत् । तत्तद्द्रव्या- लाभे भोज्यान्तराणि वा दद्यात् । भोजना- सामर्थ्ये तत्तद्द्रव्याणि पाणिना प्रतिग्राहयेत् । ततो मत्स्यपुराणोक्तैर्मन्त्रैर्दक्षिणां दद्यात् । धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा । कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ॥ तत्र । कपिले सर्व्वदेवानां पूजनीयासि रीहिणी । तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ॥ इति पठित्वा ॐ अद्येत्यादि कृतैतत्सूर्य्यग्रह- यज्ञकर्म्मणः प्रतिष्ठार्थं दक्षिणां कपिलां धेनुं रुद्रदेवताकां अमुकगोत्राय अमुकदेवशर्म्मणे ब्राह्मणाय ऋत्विजे तुभ्यमहं संप्रददे । अन्यार्थ- ञ्चेत् ददानीति ब्रूयात् । कपिलाभावे गोमात्रं वा । तदभावे काञ्चनम् । तदभावे रजतादिकं वा दद्यात् । काञ्चनादिकन्तु शङ्खादि दक्षिणा- भवेऽपि दद्यात् ॥ १ ॥ एवम् । पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् । विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य पूर्ब्बोक्तक्रमेण सोमग्रहयज्ञे शङ्खं दद्यात् ॥ २ ॥ ॐ धर्म्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य मङ्गलयज्ञे वृषं दद्यात् ॥ ३ ॥ ॐ हिरण्यगर्भगर्भस्त्वं हेमरूपं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य बुधयज्ञे काञ्चनं दद्यात् ॥ ४ ॥ ॐ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् । वरप्रदानात्तद्विष्णोरतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य गुरुयज्ञे पीतवस्त्रयुगं दद्यात् तद- भावेऽन्यवर्णवासोयुगमपि दद्यात् ॥ ५ ॥ ॐ विष्णुस्त्वमश्वरूपेण यस्मादर्णवसम्भवः । चन्द्रार्कवाहनस्त्वं वै अतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य शुक्रयज्ञे अश्वं दद्यात् ॥ ६ ॥ ॐ यस्मात्त्वं पृथिवी सर्व्वा धेनुः केशवसम्भवा । सर्व्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य शनैश्चरयज्ञे कृष्णां धेनुं अन्यवर्णां वा दद्यात् ॥ ७ ॥ ॐ यस्मादायुधकर्म्माणि त्वदधीनानि सर्व्वदा । लाङ्गलाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य राहुयज्ञे लौहं दद्यात् ॥ ८ ॥ ॐ यस्मात्त्वं सर्व्वभूतानां मङ्गलाय व्यव- स्थितः । यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥ इत्युच्चार्य्य केतुयज्ञे छागं दद्यात् ॥ ९ ॥ दक्षिणाजलं शान्तिकुम्भजलेन संमिश्र्य शान्तिं कुर्य्यात् । ततः कृताञ्जलिः । ॐ गच्छध्वममराः सर्व्वे गृहीत्वार्च्चां स्वमा- लयम् । सन्तुष्टा वरमस्माकं दत्त्वेदानीं सुपूजिताः ॥ इति विष्णुधर्म्मोत्तरीयं पठित्वा ग्रहान् विस- र्जयेत् । दक्षिणा च प्रदातव्या ग्रहाणाञ्च विस- र्जनमिति वशिष्ठवचनात् ।” इति रघुनन्दन- भट्टाचार्य्यविरचितग्रहयागप्रयोगः समाप्तः ॥



Correction: