वाचस्पत्यम्
यातु || न० या—तु । १ राक्षसे अमरः । २ गन्तरि त्रि० उणा० । ३ काले पु० ४ अध्वगे त्रि० सि० कौ० ५ वायौ संक्षिप्तसा० यत—णिच्—उण् । ६ यातयितरि प्रवर्त्तयितरि च “यातुर्यथेति” ताण्ड्य० ब्रा० “यातुर्यातयिता प्रवर्त्तयि- तेति” भा० ।
शब्दकल्पद्रुमः
यातु || क्ली (सर्व्वेषामन्तं यातीति । या + “कमि- मनिजनीति ।” उणा० १ । ७३ । इति तुः ।)
राक्षसः । इत्यमरः । १ । १ । ६३ ॥ (यथा, —
“यातु यातुप्रवीराणां प्रणम्य चरणानसौ ॥” इत्यमरटीकायां रघुनाथचक्रवर्त्ती ॥ (पुंलिङ्गेऽपि दृश्यते । यथा, ऋग्वेदे । ७ । २१ । ५ । “न यातव इन्द्र जूजुवुर्नो न ।” “यातवो राक्षसाः ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
यातु || त्रि (यातीति । या + “कमिमनीति ।” उणा० १ । ७३ । इति तुः ।)
गन्ता । इत्यु- णादिकोषः ॥ क्रियापदं चेत् गच्छतु ॥
शब्दकल्पद्रुमः
यातुः || पुं, (सर्वान्तं याति गच्छतीति । या + “कमि- मनिजनिगाभायाहिभ्यश्च ।” उणा० १ । ७३ । इति तुः ।)
कालः । अध्वगः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ वायुः । इति संक्षिप्त- सारोणादिवृत्तिः ॥ (स्त्री, यातना । यथा, ऋग्वेदे । ८ । ४९ । २० । “मा नो रक्ष आवेशीदाघृणीवसो मायातुर्यातु मावताम् ॥” “यातुर्यातना पीडा ।” इति सायणः ॥ कर्म्म- नाशकरी हिंसा । यथा, तत्रैव । ५ । १२ । २ । “नाहं यातुं सहसा न द्बयेन ऋतं शपाम्य- रुषस्य वृष्णः ।” “यातुं कर्म्मणां नाशकरीं हिंसाम् ।” इति तद्भाष्ये सायणः ॥)