वाचस्पत्यम्
यातृ || स्त्री या—तृच् । १ देवरपत्न्याम् (या) अमरः । यातरौ यातरः । तृन् । २ गन्तरि त्रि० । यातारौ यातारः ।
शब्दकल्पद्रुमः
याता || [ऋ] स्त्री, (यततेऽन्योन्यभेदायेति । यत् + “तृन् ।” उणा० २ । ९८ । इति तृन् ।)
पतिभ्रातृपत्नी । इत्यमरः । १ । ६ । ३० ॥ या इति भाषा । (यथा, साहित्यदर्पणे । ३ । ७८ । “स्वामी निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नी- जनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ॥” या + तृच् । गमनकर्त्तरि, त्रि ॥ (यथा, बृहत्- संहितायाम् । ३३ । १३ । “उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥” सारथ्यादिः । यथा, मनौ । ८ । २९० । “यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥” “यातुः सारथ्यादेः ।” इति कुल्लूकः ॥ हन्ता । यथा, ऋग्वेदे । १ । ३२ । १४ । “अहेर्यातारं कमपश्य इन्द्र ।” “यातारं हन्तारम् ।” इति तद्भाष्ये सायणः ॥)