वाचस्पत्यम्
यादृक्ष(श)(श्) || त्रि० यस्येव दर्शनमस्य यद् + दृश्—क्म (ट) क्विप् वा । यत्सदृशे यथाविधे । टान्तात्तु स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
यादृक्षः || त्रि (य इव दृश्यते यमिव पश्यति वा । दृश् + “दृशेः क्सश्च वक्तव्यः ।” ३ । २ । ६० । इति वार्त्तिकोक्तेः क्सः । “आसर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्यत्र “दृक्षे चेति वक्तव्यम् ।” इत्यात्वम् ।)
य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन इति भाषा ॥