संस्कृत-शब्दकोशः

यामनेमि यामवती

यामल

वाचस्पत्यम्

यामल ||‍ न० यमल + स्वार्थेऽण् । १ युगले हेमच० । २ तन्त्र- शास्त्रभेदे च । “सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्य- प्रदीपनम् । क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च । युगधर्मश्च संख्यातो यामलस्याष्टलक्षणम्” । तत्तु षड्विधम् “आदियामलं १ ब्रह्मयामलं २ विष्णुयामलं ३ रुद्रयामलं ४ गणेशयामलम् ५ आदित्ययामलम् ६ च इति वाराहीतन्त्रम् । अस्य वर्म्यादित्वमपि तत्रार्थे ।


शब्दकल्पद्रुमः

यामलं || क्ली युगलम् । इति हेमचन्द्रः । ६ । ६० ॥ तन्त्रशास्त्रविशेषः । तस्य लक्षणं यथा, —
“सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् । क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च । युगधर्म्मश्च संख्यान्तो यामलस्याष्टलक्षणम् ॥” तत्तु षड्विधम् । आदियामलम् १ ब्रह्म- यामलम् २ विष्णुयामलम् ३ रुद्रयामलम् ४ गणेशयामलम् ५ आदित्ययामलम् ६ । इति वाराहीतन्त्रम् ॥ एषां श्लोकसंख्या तन्त्रशब्दे द्रष्टव्या ॥



Correction: