वाचस्पत्यम्
यामातृ || पु० जायां माति तृच् पृषो० । जामातृशब्दार्थे शब्दर०
शब्दकल्पद्रुमः
यामाता || [ऋ] पुं, (जामाता पृषोदरादित्वात् । जस्य यः ।)
जामाता । दुहितुः पतिः । इत्य- मरटीका शब्दरत्नावली च ॥ यामातुर्विष्णु- तुल्यत्वं तस्य गृहे कन्यादातुर्दौहित्रजननात् प्राक् भोजननिषेधश्च यथा, कामधेनावादित्य- पुराणम् । “विष्णुं यामातरं मन्ये तस्य मन्युं न कारयेत् । अप्रजायान्तु कन्यायां नाश्नीयात्तस्य वै गृहे ॥” इत्युद्वाहतत्त्वम् ॥