वाचस्पत्यम्
यामिनीपति || पु० ६ त० । १ चन्द्रे शब्दर० २ कर्पूरे च । रजनीशादयोऽप्यत्र ।
शब्दकल्पद्रुमः
यामिनीपतिः || पुं, (यामिन्याः पतिः ।)
चन्द्रः । इति शब्दरत्नावली ॥ (यथा, भागवते । १० । ३५ । २५ । “यदुपतिर्द्बिजराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥”)
कर्पूरम् । इत्यमरः ॥