वाचस्पत्यम्
युगकीलक || पु० ६ त० । रथाद्यङ्गयुगधारणार्थे कीलकाकारे काष्ठखण्डभेदे अमरः ।
शब्दकल्पद्रुमः
युगकीलकः || पुं, (युगस्य कीलकः ।) युगकाष्ठस्य कीलकः । जोयालेर खिल इति भाषा । तत्पर्य्यायः । शम्या २ । इत्यमरः । २ । ९ । १४ ॥