संस्कृत-शब्दकोशः

युद्धसार युधा

युध

वाचस्पत्यम्

युध ||‍ युद्धे दिवा० आ० सक० अनिट् । युध्यते अयुद्ध युयुधे ।


शब्दकल्पद्रुमः

युध || य औ ङ युद्धे । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-अक०-हनने सक०-अनिट् ।)
य ङ, युध्यते । औ, योद्धा । संमुखस्थितयोर्द्वयोः सांग्रामिकरीत्या परस्पराभिभवेच्छा युद्धम् । युध्यते योधः कदाचिदेकस्य सह भावविव- क्षायां युध्यते योधः परेण । कदाचिद्धननेऽपि युध्यते चौरं राजा हन्तीत्यर्थः । यो भक्त- पिण्डस्य कृते न युध्येदिति अस्माद्भावे क्विपि तमिच्छतीति क्ये तं करोतीति कण्ड्वादित्वात् क्ये वा साध्यम् । इति दुर्गादासः ॥



Correction: