संस्कृत-शब्दकोशः

युधिक युधीय

युधिष्ठिर

वाचस्पत्यम्

युधिष्ठिर ||‍ पु० युधि युद्धे स्थिरः “गवियुधिभ्यां स्थिरः” पा० षत्वम् । पाण्डवश्रेष्ठे ।


शब्दकल्पद्रुमः

युधिष्ठिरः || पुं, (युधि संग्रामे स्थिरः । “गवि- युधिभ्यां स्थिरः ।” ८ । ३ । ९५ । इति षत्वम् । “हलदन्तात् सप्तम्याः संज्ञायाम् ।” ६ । ३ । ९ । इति सप्तम्या अलुक् ।)
पाण्डवराजः । स कुन्ती- गर्भे धर्म्माज्जातः । तत्पर्य्यायः । अजातशत्रुः २ शल्यारिः ३ धर्म्मपुत्त्रः ४ अजमीढः ५ । इति हेमचन्द्रः । ३ । ३७१ ॥ (मृगशापाभितप्तः पाण्डुर्निरपत्यतया खिन्नचित्तः पुत्त्रार्थमेकदा धर्म्मपत्नीं कुन्तीमुवाच । शुचिस्मिते ! अनपत्यो हि न शुभलोकार्ह इति विचिन्त्य त्वं मदुपका- रार्थं केनापि पुत्त्रमुत्पादयेति । एवमुक्ता कुन्ती दृष्ट्वा च पत्युराग्रहातिशयं धार्म्मिकपुत्त्रलाभाय दुर्व्वासः प्रदत्तमन्त्रबलेन धर्म्ममाहूय तेन सङ्गता युधिष्ठिरं पुत्त्रमलभत । यदुक्तं महाभारते । १ । १२३ । ५ — ८ । “संयुक्ता सा हि धर्म्मेण योगमूर्त्तिधरेण ह । लेभे पुत्त्रं वारारोहा सर्व्वप्राणभृतां हितम् ॥ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते ॥ समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् । जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ॥ एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ॥ विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥” अथ गच्छति काले धृतराष्ट्रेण यौवराज्ये स्थापितोऽयं दयादाक्षिण्यादिगुणपरम्परया प्रजासु लब्धकीर्त्तिरनुजैः सह सुखमुवास । अथ जतुगृहदाहानन्तरं त्यक्तराज्यो द्रुपदराज्य- मभिगम्य द्रौपदीं सानुजः परिणीय पुनः स्वराज्यमागतवान् । ततः कृष्णसहायो राज- सूययज्ञकरणाय दुर्जयान् जरासन्धप्रभृति- नृपतीन् हत्वा राजसूयेष्टिं समापयामास । ततोऽसूयापरवशदुर्य्योधनमतानुसारिणा कैतव- पटुना शकुनिना सह द्यूतं कृत्वा पराजितो- ऽनुजैर्भीमादिभिः पत्न्या द्रौपद्यां च सहितो द्बादशवर्षं वनवासाय एकवर्षमज्ञातवासाय च प्रस्थितो द्बैतवनमध्युवास । ततो द्वादशवर्षैर्वन- वासजातं महत् कष्टमनुभूय अज्ञातवासार्थं त्रयोदशवर्षंविराटनगरमधिवसन् पुनः कृष्ण- सहायः स्वराज्यप्राप्त्यर्थं महतीं चेष्टां कृतवान् । कृतेऽपि यत्ने यदा विगुणग्रहो दुर्य्योधनो राज्यादिकं न दत्तवान् तदा लब्धसैन्यबलोऽसौ कुरुक्षेत्र महत् युद्धं कृत्वा विनाश्य च दुर्य्यो- धनादीन् हस्तिनाधिपतिः सम्राट् बभूव । अथाश्वमेधादिना सुरगणान् परितोष्य षट्- त्रिंशद्बर्षं राज्यसुखमनुभूतवान् । ततः प्रभासे विप्रशापात् यदुवंशक्षयमाकर्ण्यातिनिर्व्विण्णः षट्त्रिंशवर्षवयस्कं अर्ज्जुनपौत्त्रं परीक्षितं स्वराज्येऽभिषिच्य उत्तरामार्गेण स्वर्गारोहणं कृतवानिति । तथाच देवीभागवते । २ । ८ । १५-१७ । “देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा । गमनाय मतिं चक्रे राजा हैमाचलं प्रति ॥ षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् । निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह ॥ षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये । गत्वा हिमाचले षट् ते जहुः प्राणान् पृथासुताः ॥” अस्यान्यद्बिशेषविवरणन्तु महाभारतादौ विस्त- रशो द्रष्टव्यम् ॥)



Correction: