वाचस्पत्यम्
युवनाश्व || पु० सूर्य्यवंश्ये मान्धातृपितरि नृपभेदे ।
शब्दकल्पद्रुमः
युवनाश्वः || पुं, सूर्य्यवंशीयराजविशेषः । स च गौरीगर्भे प्रसेनजितो जातः मान्धातृपिता च । यथा, —
“तस्याः प्रसेनजिज्जज्ञे लेभे भार्य्या पतिव्रता । गौरी नामाभिशप्ता सा नदीभूता तरङ्गिणी । तस्यां प्रसेनजिज्जज्ञे युवनाश्वं महीपतिम् ॥ यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति । सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥” इति वह्निपुराणे सगरोपाख्यानाध्यायः ॥