संस्कृत-शब्दकोशः

युवन् युष

युवराज

वाचस्पत्यम्

युवराज ||‍ पु० युवैव राजा टच्समा० । राजयोग्यकियत्- कार्य्यकरे १ राजपुत्रे अमरः । २ बुद्धभेदे त्रिका० ।


शब्दकल्पद्रुमः

युवराजः || पुं, भाविबुद्धविशेषः । तत्पर्य्यायः । मैत्रेयः २ अजितः ३ । इति त्रिकाण्डशेषः ॥ राजपुत्त्रः । तत्पर्य्यायः । कुमारः २ भर्त्तृ- दारकः ३ । इत्यमरः । १ । ७ । १२ ॥ युवा बालो राजा यूनां वा राजा युवराजः । सख्य- होराज्ञ इति षः । कुमारयति कुमारः । स्यात् कुमार कुमाल त् क केलौ अन् । भर्त्तुर्दारकः पुत्त्रः भर्त्ता चासौ दारकश्चेति वा भर्त्तृदारकः । दारको भेदके शिशाविति निगमः । इति भरतः ॥ (यथा, महाभारते । १ । ७३ । १६ । “मयि जायेत यः पुत्त्रः स भवेत्त्वदनन्तरम् । युवराजो महाराज ! सत्यमेतद्ब्रवीमि ते ॥”)



Correction: