वाचस्पत्यम्
यूक || पुंस्त्री० यू—क्विप् क । मत्कुणे (उकुण) स्त्रीत्वे टाप् ।
शब्दकल्पद्रुमः
यूकः || पुं, (यौतीति । यु + “अजियुधूनीभ्यो दीर्घश्च ।” उणा० ३ । ४७ । इति कन् दीर्घश्च ।)
मत्कुणः । इति जटाधरः ॥ (यथा, सुश्रुते सूत्रस्थाने ३१ अध्याये । “यूका ललाटमयान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥”)