वाचस्पत्यम्
यूथिका || स्त्री यु—थक् पृषो० दीर्घः स्वार्थे क अत इत्त्वम् टाप् । १ अम्लानके मेदि० २ पाठायां राजनि० । २ यूथ्याञ्च (युइ) अमरः ।
शब्दकल्पद्रुमः
यूथिका || स्त्री (यूथं पुष्पवृन्दमस्या अस्तीति । यूथ + ठन् । टाप् ।)
पाठा । इति राजनिर्घण्टः । अम्लानकः । इति मेदिनी । के, १४४ ॥ पुष्प- विशेषः । युँइ फुल इति भाषा ॥ (यथा, मेघ- दूते । १ । २८ । “विश्रान्तः सन् व्रजवननदीतीरजातानि सिञ्चन् उद्यानानां नवजलकणैर्यूथिकाजालकानि ॥”)
तत्पर्य्यायः । गणिका २ अम्बष्ठा ३ मागधी ४ । सा पीता चेत् हेमपुष्पिका । इत्यमरः । २ । ४ । ७१ ॥ यूथी ५ प्रहसन्ती ६ । इति त्रिकाण्ड- शेषः ॥ शिखण्डिनी ७ वासन्ती ८ । इति रत्नमाला ॥ बालपुष्पिका ९ बहुगन्धा १० भृङ्गानन्दा ११ । अस्या गुणाः । स्वादुत्वम् । शिशिरत्वम् । शर्करार्त्तिपित्तदाहतृषानाना- त्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “यूथीयुगं हिमं तिक्त कटुपाकं सरं लघु । मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् । व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम् ॥” इति भावप्रकाशः ॥ (तथा च सुश्रुते उत्तरतन्त्रे ४५ अध्यायः । “पटोलशेलूसुनिषण्णयूथिका वटातिमुक्ताङ्कुरमिन्दुवारजम् ॥”)