वाचस्पत्यम्
योजनवल्ली || स्त्री योजनं व्याप्य वल्लीव । मञ्जिष्ठायाम् अमरः स्वार्थे क ह्रस्वः टाप् । तत्रैव राजनि० ।
शब्दकल्पद्रुमः
योजनवल्ली || स्त्री (योजनगामिनी अतिदीर्घा वल्ली यस्याः सा ।)
मञ्जिष्ठा । इत्यमरः । २ । ४ । ९१ ॥ (तथास्याः पर्य्यायः । “मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)