वाचस्पत्यम्
रक्त || न० रन्ज—करणे क्त । १ कुङ्कुमे २ ताम्रे ३ प्राचीनामलके मेदि० । ४ सिन्दूरे ५ हिङ्गुले ६ पद्मके राजनि० । ७ शरी- रस्थे रसपाकजन्ये मांसहेतौ रुधिराख्ये धातुभेदे अमरः । ८ कुसुम्भे ९ हिज्जले १० रोहितवर्णे च पु० ११ तद्वति त्रि० अमरः । १२ परागे कर्त्तरि क्त । १३ अनु- रक्ते मेदि० १४ क्रीडारते च गरणिः । कर्मणि क्त । १५ नील्यादिभीरञ्जिते त्रि० । करणे क्त । १६ मञ्जिष्ठायां १७ लाक्षायां १९ गुञ्जायाञ्च स्त्री राजनि० टाप् । भावे क्त । २० रागे न० । धातुभेदरक्तस्वरूपादिकं भावप्र० उक्तं यथा “यदा रसो यकृद्याति तत्र रञ्जकपित्ततः । रागं पाकं श संप्राप्य स भवेद्रक्तसंज्ञकः । रक्तं सर्वशरीरस्थं जीवस्याधारमुत्तमम् । स्निग्धं गुरु चसं स्वादु विदग्धं पित्तवद्भवेत्” । जीवस्याधारनुत्तममिति, यत आह । “जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणादिति” । वीर्य्ये रक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणमिते शुद्धे जीवो वसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोप- देशस्य वैयर्थ्यप्रसङ्गात् । पित्तवद्भवेत् अम्लवद्भवेदित्यर्थः । अथ रक्तस्य स्थानमाह “यकृत् प्लीहा च रक्तस्य मुख्य- स्थानन्तयोः स्थितम् । अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत्” । असृक्करशब्दे ५५९ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
रक्तं || क्ली (रज्यत अङ्गमनेनेति । रन्ज् + क्तः ।)
कुङ्कुमम् । ताम्रम् । (अस्य पर्य्यायो यथा, —
“रक्तंवरिष्ठं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥)
प्राचीनामलकम् । इति मेदिनी । ते, ४८ ॥ पद्मकम् । (अस्य पर्य्यायो यथा, —
“रक्तं कोकनदं पद्ममल्पमन्यदलोहितम् ॥” इति रत्नमाला ॥)
सिन्दूरम् । हिङ्गुलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥” इति रत्नमाला ॥)
(रक्तचन्दनभेदः । तत्पर्य्यायो यथा, —
“पतङ्गं रञ्जनं रक्तं पत्राङ्गञ्च कुचन्दनम् ॥” इति रत्नमाला ॥)
शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः । तत्- पर्य्यायः । रुधिरम् २ असृक् ३ लोहितम् ४ अस्रम् ५ क्षतजम् ६ शोणितम् ७ । इत्य- मरः । २ । ६ । ६४ ॥ पलङ्कारम् ८ रोहितम् ९ रङ्गकम् १० । इति शब्दरत्नावली ॥ कीला- लम् ११ अङ्गजम् १२ रोधिरम् १३ स्वजम् १४ । इति जटाधरः ॥ त्वग्जम् १५ शोणम् १६ लोहम् १७ चर्म्मजम् १८ । इति राज- निर्घण्टः ॥ * ॥
अथ रक्तस्य स्वरूपमाह । “यदा रसो यकृद्याति तत्र रञ्जकपित्ततः । रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः ॥ रक्तं सर्व्वशरीरस्थं जीवस्याधार उत्तमः । स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् ॥ जीवस्याधार उत्तम इति । यत आह । जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणा- दिति ॥ वीर्य्ये रक्ते मले च शरीरारम्भके । वाग्भटोक्त- परिमाणमिते शुद्धे जीवो वसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्य वैयर्थ्यप्रसङ्गात् । पित्तवद्भवेत् । अम्लं भवेदित्यर्थः ॥ * ॥
अथ रक्तस्य स्थानमाह । यकृत् प्लीहा च रक्तस्य मुखं स्थानं तयोः स्थितम् । अन्यत्रापि स्थितवतां रक्तानां पोषकं भवेत् ॥” इति भावप्रकाशः ॥ रक्तदोषनाशकौषधं यथा, —
“ब्रह्मयष्टिफलं पिष्टं वारिणा तनु लेपतः । तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥” इति गारुडे १९२ अध्यायः ॥ (“स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य राग मुपैति ॥ भवतश्चात्र । रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते । तद्बर्षाद्द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥” “रसाद्रक्तं ततो मांसम् ॥” “तत्र फेनिलमरुणं कृष्णं परुषं तनु शीघ्र- गमस्कन्दि च वातेन दुष्टम् । नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षि- काणामस्कन्दि च पित्तदुष्टम् । गैरिकोदक- प्रतीकाशं स्निग्धं शीतलं वहलं पिच्छिलं चिर- सावि मांसपेशीप्रभं श्लेष्मदुष्टञ्च । सर्व्वलक्षण- संयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्नि- पातदुष्टम् । पित्तवद्रक्तेनातिकृष्णञ्च । द्विदोष- लिङ्गं संसृष्टम् ॥” “इन्द्रगोपप्रतीकाशमसंहतमविवर्णञ्च प्रकृतिस्थं जानीयात् ॥” “त्वग्दोषा ग्रन्थयः शोफाः रोगाः शोणित- जाश्च ये । रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥” “देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥ इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ * ॥
“शीतोष्णस्निग्धरुक्षद्यैरुपक्रान्ताश्च ये गदाः । सम्यक्साध्या न सिद्धन्ति रक्तजांस्तान् विभा- वयेत् ॥” अरुणाभं भवेद्बातात् फेणिलं विषदं तनु । पित्तात्पीतासितं रक्तं सौष्ण्यात्स्त्यायति वै चिरात् ॥ ईषत् पाण्डुकफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् । द्विदोषलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥” “नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् । तदा शरीरं ह्यनवस्थितासृ- गग्निर्व्विशेषेण च रक्षितव्यः ॥ प्रसन्नवर्णेन्द्रियमिन्द्रियार्था निच्छन्तमव्याहतपक्तिवेगम् । सुखान्वितं पुष्टिबलोपपन्नं विशुद्बरक्तं पुरुषं वदन्ति ॥” इति चरके सूत्रस्थाने २४ अध्यायः ॥)
शब्दकल्पद्रुमः
रक्तः || त्रि अनुरक्तः । नील्यादिरञ्जितः । लोहितः । इति मेदिनी । ते, ४८ ॥ क्रीडारतः । इति धरणिः ॥ * ॥
रक्तवर्णवस्तुनि यथा, —
“शोणानि भौमतीक्ष्णांशुताम्रकुङ्कुमतक्षकाः । गुञ्जेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ॥ दृगन्ताधरजिह्वासृङ्मांससिन्दूरधातवः । हिङ्गुलं कुक्कुटशिखा तेजः सारसमस्तकम् ॥ माणिक्यं हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् । चकोरकोकिलपारावतनेत्रनखाग्नयः ॥ कुसुम्भकिंशुकाशोकजवाबन्धूकपाटलाः । कमलं दाडिमीपुष्पं विम्बकिम्पाकपल्लवौ ॥ ताम्बूलरागो मञ्जिष्ठालक्तकं रक्तचन्दनम् । त्रेता नखक्षतक्षेत्रधर्म्मरौद्ररसादयः ॥” * ॥
रक्तनीलवाचकानि यथा, —
“लोहितनीलौ पुष्करहरिविद्रुमकमलकृष्ण- रत्नानि । सिन्दूरभूषणोत्पलधनञ्जयाम्भोजिनीदलानि ॥” यथा । पुष्करं पद्माकाशयोः । हरिः सूर्य्य- कृष्णयोः । विद्रुमः प्रवालविशिष्टवृक्षयोः । कमलं पद्मपाणीयामलयोः कृष्णरत्नं कौस्तु- भेन्द्रनीलयोः । सिन्दूरभूषणं सिन्दूरालङ्कार- गजयोः । उत्पलमुत्कृष्टमांसेन्दीवरयोः । धन- ञ्जयोऽग्निपार्थयोः । अम्भोजिनीदलं पद्मपत्रपु- टकिन्योः । “कमलाधिपपद्मेशौ नागजित्कान्तसूर्य्यभूः । रत्नाकरवरश्रीकः सदाधिकमलद्युतिः ॥” कमलाधिपपद्मेशौ सूर्य्यकृष्णौ । नागजित् गरुडो नागस्पर्द्धी च । कान्तः कमनीयः कं जलं तस्यान्तश्च । सूर्य्यभूः सूर्य्योद्भवो यमश्च । “सदा सिन्दूरमुज्जेता कलयन् कमलश्रियम् । स्फुटशोभनताम्रश्रीर्व्वराहस्वामिदीधितिः ॥ एवं सुसम्पन्नखप्रभः विदूरमणिदीधितिः । प्रबालप्रबलच्छायः कलभानुमितच्छविः ॥” * ॥
रक्तश्वेतवाचकानि यथा, —
“रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्यका- न्ताब्जः । नवहंसमहापद्मार्कसोदराः कमलकीलाले ॥” हरिञ्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतपत्रं हंसपद्मयोः । सूर्य्य- कान्तः स्फटिके सूर्य्यवत्कान्ते च । अब्जः शङ्खाम्बु- जयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महा- पद्मः श्वेतनागे पद्मे च । अर्कः स्फटिकसूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥” भानोः परस्मात् सुहृद्रत्नादिभिः ॥ * ॥
सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्नं सूर्य्यकान्तः रविपद्मरागौ च । अग्नि- रत्नं सूर्य्यकान्तोऽग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च । जलजशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारि- शोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमुदारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमु- दारिरादित्यः । इति कविकल्पलतायाम् २ श्लेषस्तवके उद्दिष्टवर्णनं नाम १ कुसुमम् ॥
शब्दकल्पद्रुमः
रक्तः || पुं, लोहितवर्णः । इत्यमरः । १ । ५ । १५ ॥ कुसुम्भः । हिज्जलः । इति राजनिर्घण्टः ॥ (बन्धूकः ॥ तत्पर्य्यायो यथा, —
“बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च ॥” इति भावप्रकाशष्य पूर्ब्बखण्डे प्रथभे भागे ॥)