संस्कृत-शब्दकोशः

रक्तचन्दन रक्तचूर्ण

रक्तचित्रक

वाचस्पत्यम्

रक्तचित्रक ||‍ न० कर्म० । (लालचिता) क्षपभेदे राजनि० ।


शब्दकल्पद्रुमः

रक्तचित्रकः || पुं, (रक्तो रक्तवर्णश्चित्रकः ।)
क्षुपविशेषः । राङ्गचिता इति भाषा ॥ तत्- पर्य्यायः । कालः २ अत्यालः ३ कालमूलः ४ अतिदीप्यः ५ मार्ज्जारः ६ अग्निः ७ दाहकः ८ पावकः ९ चित्राङ्गः १० महाङ्गः ११ । अस्य गुणाः । प्रत्नकायकरत्वम् । रुच्यत्वम् । कुष्ठ- घ्नत्वम् । लोहवेधकत्वम् । रसनियामकत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥



Correction: