संस्कृत-शब्दकोशः

रक्तमेह रक्तयष्टि

रक्तमोक्षण

वाचस्पत्यम्

रक्तमोक्षण ||‍ न० ६ त० । रुधिरस्रावणे । “वेदनोपशमार्थाय तथाऽपाकशमाय च । अचिरोत् पतिते शोथे शोणितस्रावणञ्चरेत्” । चरेत् कुर्य्यात् । “एकतस्तु क्रियाः सर्वा रक्तमोक्षणमेकतः । रक्तं हि वेदनामूलं तच्चेन्नास्ति नचापि रुक् । विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः पदैरपि” । शोणितस्रावणञ्चरेदित्यनेनान्वयः” भावप्र०


शब्दकल्पद्रुमः

रक्तमोक्षणं || क्ली (रक्तस्य मोक्षणम् ।)
शोणित- स्रावः । यथा, —
“वेदनोपशमार्थाय तथा पाकशमाय च । अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥ चरेत् कुर्य्यात् । एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः । रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥ विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः पदैरपि ॥ शोणितस्रावणञ्चरेदित्यनेनान्वयः ।” इति भाव- प्रकाशः ॥ (तथा च । “रक्तावसेचनं चतुर्भिः प्रकारैर्भवति । शिराविरेचनेनापि अलावूभिस्तथैव च ॥ श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद्बुधः । पूर्ब्बाह्ने चापराह्णे च नात्युष्णे नातिशीतले ॥ यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् । शिरोरोगेषु सर्व्वेषु नासामध्यपुटे तथा । अमृजं रेचयेद्यत्नात् सर्व्वदा भिषगुत्तमः ॥” एति हारीते शारीरस्थाने पञ्चमेऽध्याये ॥)



Correction: