संस्कृत-शब्दकोशः

रक्तवृष्टि रक्तशासन

रक्तशालि

वाचस्पत्यम्

रक्तशालि ||‍ पु० कर्म० । (लालधान) धान्यभेदे भावप्र० । धान्यशब्दे ३८७६ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

रक्तशालिः || पुं, (रक्तवर्णः शालिः ।)
रक्तवर्ण- धान्यविशेषः । (यथा, सुश्रुते सूत्रस्थाने । २० अध्याये । “रक्तशालिषष्टिकगङ्गुकमुकुन्दकपाण्डु कपीतकप्रमोदककालकेत्यादि ॥”)
तत्पर्य्यायः । ताम्रशालिः २ शोणशालिः ३ लोहितः ४ । अस्य गुणाः । मधुरत्वम् । लघुत्वम् । स्निग्ध- त्वम् । बलावहत्वम् । रुचिकारित्वम् । दीप- नत्वम् । पथ्यत्वम् । पित्तदाहानिलास्रनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ (तथा च । “रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् । चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृट् ज्वरापहः । विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: