संस्कृत-शब्दकोशः

रक्तसहा रक्तसौगन्धिक

रक्तसार

वाचस्पत्यम्

रक्तसार ||‍ न० रक्तः सारोऽस्य । १ रक्तचन्दने २ अम्लवेतसे पु० राजनि० ।


शब्दकल्पद्रुमः

रक्तसारं || क्ली (रक्तवर्णः सारोऽस्य ।)
रक्त- चन्दनम् । (यथास्य पर्य्यायः । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पत्तङ्गम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”)
इति भावप्रक्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

रक्तसारः || पुं, (रक्तः सारो यस्य ।)
अम्लवेतसः । रक्तखदिरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ रक्ते सारो यस्येति । शोणितसारयुक्ते, त्रि । यथा, बृहत्संहितायाम् । ६८ । ९७ । “ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर- चरणैः । रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥”)



Correction: