वाचस्पत्यम्
रक्ताक्ष || पु० रक्ते अक्षिणी यस्य षच्समा० । १ पारावते २ म- हिषे ३ चकोरे राजनि० ४ रक्तनेत्रवति क्रूरे जने च त्रि० ५ सारसे च मेदि० । स्त्रियां जातौ सर्वत्र ङीष् ।
शब्दकल्पद्रुमः
रक्ताक्षः || पुं, (रक्ते लोहिते अक्षिणी अस्य । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।)
महिषः । पारावतः । चकोरः । क्रूरः । इति मेदिनी । षे, ४४ ॥ सारसः । इति राजनिर्घण्टः ॥ (अब्दविशेषः । यथा, बृहत्- संहितायाम् । ८ । ५१ । “रक्ताक्षमब्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च ॥”)
रक्तवर्णचक्षुर्युक्ते, त्रि । (यथा, रामायणे । २ । ८८ । १९ । “कथमिन्द्रीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी न दुःखार्हो शयितो भुवि राघवः ॥” अयन्तु सदा लक्ष्मीयुक्तो भवेत् । यथा, ज्योतिः- सागरे । “न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । न दीर्घबाहुमैश्वर्य्यं न सौख्यं प्रहसन्मुखम् ॥”)