वाचस्पत्यम्
रक्ताति(ती)सार || पु० रक्तमिश्रितोऽति(ती)सारः । वैद्यक- प्रसिद्धे रोगभेदे । “पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके । तद्दोषाज्जायते शीघ्रं रक्तातीसार उल्वणः” भावप्र० । अति(ती)सारशब्दे १०६ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
रक्तातिसारः || पुं, (रक्तं अत्यन्तं सरत्यस्मात् । सृ + घञ् ।)
रोगविशेषः । “तस्य संप्राप्तिमाह । ‘पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके । तद्दोषाज्जायते शीध्रं रक्तातीसार उल्वणः ॥’ तस्य चिकित्सा । ‘वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् । त्वग्युगलं पलमानं विपचेदष्टाङ्गसम्मिते तोये ॥ अष्टमभागं शेषं क्वाथं मधुना पिबेत् पुरुषः । रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम् ॥ इति कुटजदाडिमक्वाथः ॥ * ॥
‘गोदुग्धनवनीतन्तु मधुना सितया सह । लीढं रक्तातिसारे तु ग्राहकं परमं महत् ॥’ इति नवनीतावलेहः ॥ * ॥
‘पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना । रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत् ॥’ चन्दनमत्र श्वेतम् । इति चन्दनकल्कः ॥” इति भावप्रकाशः ॥ (तथा च । “यस्तु रक्तशुद्धविरेचने शोषदाहमतिरिच्यते । रक्तातिसार इति विज्ञेयो वैद्यैर्महामतिभिः ॥ धन्वनागरमुस्ता च बालकं बालविल्वकम् । वलानागवला चेति क्वाथो रक्तातिसारिणाम् ॥ दाडिमञ्च कपित्थञ्च पथ्याजम्ब्वाम्रपल्लवान् । पिष्ट्वा देया मस्तुयुक्ता रक्तातिसारवारणाः ॥ गुडेन पक्वं दातव्यं विल्वं रक्तातिसारिणे । मनुजे मधुयुक्ता वा दध्ना रक्तातिसारहाः ॥ वत्सकातिविषनागराभया पेषितञ्च मधुमस्तुसंयुतम् । लेह एव मधुना च मानुषे रक्तवाहमति वारयत्यपि ॥ कुटजत्वक् च पाठा च विश्वं विल्वञ्च धातकी । मधुना सहितं चूर्णं देयं रक्तातिसारहम् ॥ इति रक्तातिसारः ।” इति हारीते चिकित्- सितस्थाने तृतीयेऽध्याये ॥)