संस्कृत-शब्दकोशः

रक्तेक्षु रक्तैर्वारु

रक्तैरण्ड

वाचस्पत्यम्

रक्तैरण्ड ||‍ पु० कर्म० । (लालभेरण्डा) वृक्षभेदे राजनि० ।


शब्दकल्पद्रुमः

रक्तैरण्डः || पुं, (रक्तवर्णः एरण्डः ।)
वृक्षविशेषः । लाल भेरण्डा इति भाषा ॥ तत्पर्य्यायः । व्याघ्रः २ हस्तिकर्णः ३ रुवुः ४ उरुवूकः ५ नाग- वर्णः ६ चञ्चुः ७ उत्तानपत्रकः ८ करपर्णः ९ पाचनः १० स्निग्धः ११ व्याघ्रतलः १२ रक्तकः १३ चित्रवीर्य्यः १४ ह्रस्वैरण्डः १५ । अस्य गुणाः श्वयथुपवनश्रान्तिरक्तार्त्तिपाण्डुभ्रान्ति- श्वासज्वरारोचकनाशित्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः ॥ रक्तोऽपरोरुवूकः स्यादूरुवूको रुवुस्तथा । व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥ एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् । शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥ ब्रध्नश्वासकफानाहकासकुष्ठाममारुतान् ॥ एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् । मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपणम् ॥ वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम् । कफवातकृमीन् हन्ति वृद्धिं सप्तविधामपि ॥ एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् । यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् । तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदयापहः ॥” इति भावप्रकाशः ॥



Correction: